________________
४१६
मप्तदशपरिवर्तः।
निवेशनिरोधश्चतुर्थः। यदाह। नात्मकथेत्यादि। आत्मन एवात्मीयसम्बन्धेन प्रभेदार्थ नामात्येत्याधुपादानम् । स चायं चतुर्विधो विपाकनिरोधः प्रत्येकं चैधातुको वेदितव्यः। तत्र कामरूपधात्वोरिन्द्रियाधारविषयनिरोधोऽतिप्रतीतः। आरूप्ये तुपेक्षाजीवितमनःमजेन्द्रियसभवादिन्द्रियनिरोधः ।
निकायं जीवितञ्चार निःश्रिता चित्तमन्ततिः। इति कृत्वेन्द्रियाधारनिरोधः। मनोविषयधर्मनिरोधसम्भवादिन्द्रियविषयनिरोधः सम्भवति। मर्ववात्माभिनिवेशस्तु विद्यत एवेति तन्निरोधोऽप्यपपन्नः। दानादिविशेषावबोधेन मात्सर्यदौःशोल्यादियोगानुयोगविहारप्रतिषेधान्मार्गे धर्मज्ञानष्टान्तिरित्याह। न धर्मविरुद्धकथेत्यादि। धर्मविरुद्धकथानिषेधेन शान्तरानन्तर्यमार्गत्वात् क्लेशविमंयोगकारणत्वं विज्ञापितम्। कायवाक्ममारम्भः कलहः । वाचित्तकृतं वैरूप्यं भण्डनम् । विग्रहविवादौ व्याख्यातौ। कुशलधर्मानुवर्तनाद्धर्मकामाः । प्रतिपत्तिफलधर्मयोः संस्कृतासंस्कृतत्वाद्यथाक्रम हानोपादानकथनादभेदवर्णवादिनः। विशिष्टतरावस्थाप्राप्त्यभिलाषामित्रकामाः। श्रावकाद्यमाधारणधर्मगदनाधर्मवादिनः। उपपत्तिवशितालाभात्तत्रोपपद्यन्ते। यथोक्तक्षान्तिमेव स्पष्टयन्नाह। पुनरपरमित्यादि (p. 336 1)। कोविदा इति पण्डिताः। यद्भयस्त्वेनेति बाहुल्येन। सर्वधर्मत्रिविमोक्षमुखस्वभावत्वेनाणुमात्रधर्मानुपलम्भान्मार्गे धर्मज्ञानमित्याह। पुनरपरमित्यादि। मायोपमसर्व