________________
४१४
सप्तदशपरिवर्त्तः ।
(p 333, 5) पूर्वेण सम्बन्धः। विषयादीनवदर्शनेन मदा ब्रह्मचारित्वात्समुदयेऽन्वयज्ञानक्षान्तिरित्याह। न समविषमेणेत्यादि। न समविषमेण नोद्धारचिन्यायेन । न्यायोपात्तत्वाधण सदा ब्रह्मचारित्वान्नाधर्मेण। शमथस्निग्धसन्तानत्वान्न परेषामपमर्दनमुपघातं कुर्वन्ति। तथैव तत्कस्य हेतोरित्याशयाह। तथा हि तैरित्यादि। सत्पुरुषरित्यादिस्तुतिरित्येके। पोडशक्षणदर्शनमार्गलाभाद् यथाक्रमं सत्पुरुषैरित्यादिपोडशपदानौत्यपरे । सत्पुरुषधर्मतया सम्यगुपकरणाजीवविशुद्धत्वात्समुदयेऽन्वयज्ञानमित्याह । पुनरपरमित्यादि। वज्रपाणिरित्येतत्संज्ञकोऽन्यः कश्चित् प्रतिविशिष्टो महायशः। अनभिभवनौयकायवाचित्तत्वाद्यथासंख्यम्। दर्धर्षानतिक्रमणीयदरासदपदानि वाच्यानि। वस्तिगतकोषगुह्यत्वात् पुरुषपभेन्द्रियसमन्वागतः। आर्यतारादिमन्नप्रकारी मन्त्रजातिः। चन्द्रसूर्यग्रहोत्पादितभृङ्गराजादिरोषधिः । मन्त्रजात्योपथ्य एव विद्याभेषजादि। आदिशब्दाद्यन्त्रादिपरिग्रह इत्येके। मन्त्रजाति कोत्तरा बहुद्रव्यसमाहारलक्षणौषधिः। विद्या लौकिकी भेषजमेकाङ्गिकमित्यपरे। पुरुषदेवतासम्बन्धान्मन्त्रजातिः। उत्पन्नव्याधिप्रतीकारार्थमोपधिः। स्त्रौदेवतासम्बन्धादिद्या, भेषजमनागतोत्यातप्रतिषेधार्थमित्यन्ये । कायवाकलहाभावान्न विग्रहविवादशौलः। शून्यतावस्थितत्वेन स्कन्धधात्वायतनयोगानुयोगविहारप्रतिषेधान्निरोधे धर्मज्ञानक्षान्तिरित्याह । पुनरपरमित्यादि। “योगानुयोगग्रहणेन दुःखसमुदय