________________
अभिसमयालङ्कारालोकः ।
४१३
ड्यानाद्यङ्गपरिक्षयेण दःखेऽन्वयज्ञानमित्याह । स आकांक्षनित्यादि। नवानुपूर्वममापत्त्याधुपलष्क्षणम्। अत्र ध्यानानि दृष्टधर्मसुखविहारार्थमभिमुखीकरणाड्यानै विहरति, तत्फलसाक्षात्करणाड्यानपरिजयच करोति। तत्तदङ्गप्रहाणेनाधिगतान्वयज्ञानस्य रूपारूप्यधातुप्रतिपक्षात्वज्ञापनार्थमालम्बनाड्यानानि च ममापद्यते। अनुकूलात्मभावमंपरिग्रहान्न च ध्यानवशेनोपपद्यते। दःखऽन्वयज्ञानावस्थायां बोधिसत्त्वस्य वैराग्यलाभानुपपत्त्या म पुनरेव कामावचारान्धर्मानध्यालम्बत इति योज्यम् । अपगताकुशलत्वेन कायचेतोलाघवात् समुदये धर्मज्ञानक्षान्तिरित्याह। पुनरपरमित्यादि। दर्शनहेयविकल्पानपहृतत्वेन कायचित्तलाघवोत्पादान्न नामादिगुरुको भवति। बाह्याध्यात्मिकयशोभेदात्कौर्तिः श्लोक इति इयमुक्तम्। विदितस्वलक्षणशून्यधर्मत्वान्नामाद्यलाभेऽपि वैमनस्याभावेनामंभितचित्तः। मायोपमभावनोपायकोशलसामर्थ्यनानभिनिवेशकामोपभोगात्समुदये धर्मज्ञानमित्याह । मचेत्सोऽगारमित्यादि। अगारं गृहं प्रातेषु कामेषु कामाभिष्टङ्गोऽभिनिवेशः। अप्राप्तेष्ट भिप्रायः प्रार्थना । मायोपमनिर्वाणधर्मावगमानिर्विन्मज्ञा। एतदेव दृष्टान्तेन स्पष्टयन्नाह। तद्यथापि नामेत्यादि। जीवितेन्द्रियादिनिरोधदर्शनादत्वस्तमंज्ञा समयत्वादविश्रब्धम्। अनागतेपनर्थिका वर्तमानेष्टगृहा विनष्टेष्टसक्ता इत्ये के। प्रयोगादिषु चेत्यपरे। प्रासादिकसुखदत्वात् प्रियरूपसातरूपाणि । तेऽगारमध्यावसन्तोऽनर्थिका एव च भवन्तीति