________________
४
२
मप्तदशपरिवर्तः ।
तत्र रूपादिधर्मावबोधव्यावर्तनेन दःखे धर्मज्ञानक्षान्तिरिति कथयन्नाह। पुनरपरमित्यादि (p. 331. 6) । व्यवस्थितविशेषानुत्पादान्नाभिसंस्करोति। अपूर्वाकरणान्नोत्यादयति। पूर्ववत्तत्कस्य हेतोरित्याशङ्कयाह। तथा होत्यादि। स्वलक्षणशून्यैरिति। स्वभावशून्यधर्मतया रूपादिधर्मावबोधानुपलम्भाबोधिसत्त्वन्यामं दःखे धर्मज्ञानशान्तिमधिगतोऽवक्रान्तः संस्तमपि धर्म नोपलभते। यतम्तं नाभिमंस्करोति। नोत्पादयतीत्यर्थः। अनुत्पादज्ञानधान्तिक इति यथा निर्दिष्टक्षान्तिलाभौ। अनुत्तरबोधिचित्तदृढतया दःखे धर्मज्ञानमित्याह। पुनरपरमित्यादि। दर्शनभावनाविशेषमार्गेष्टमत्त्वप्रतिपादनार्थमाकाशसमेत्यादिपदचयोपादानं प्रयोगादिषु वा श्रवणचिन्ताभावनादिधेवं ज्ञातव्यमित्यादि योज्यम् । तत्र दृढं चित्तं निरन्तरायसारतया। अप्रकम्प्यं धर्मताप्रत्यक्षकारितया। अमंहार्य परेपामविषयतया। समादानप्रयोगाद्देशापरिभ्रंशार्थेन वा योज्यम्। श्रावकप्रत्येकबुद्दयानचित्तविनिवर्तनात् । दःखेऽन्वयज्ञानधान्तिरित्याह । पुनरपरमित्यादि। श्रावकप्रत्येकबुद्धभूमिनिवृत्तः मर्वज्ञतायां प्रत्तो भवतीति (p. 332, 5)। तत्र मत्यां प्रत्तौ या विनिवृत्तिः, सत्यां विनिवृत्तौ या प्रत्तिः, ते विह निवृत्तिप्रत्तौ निर्दिष्टे । न तु नित्तिपत्तिमात्रे तयोः मम्यगाकरणात् । तथा तृतीये क्षणेऽन्वयज्ञानसम्बन्धे न श्रावकादिभूमिपातः सम्भवति। तस्य चैधातुकप्रतिपक्षावाकहत्वादतस्तन्नित्त्याकारः कथितः। धर्मप्रविचयसामर्थ्या