SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ अभिसमयालङ्कारालोकः । ४११ इत्यर्थः। प्रयोगमौलपृष्ठावस्थासु न परिहीयते न प्रत्यदावर्तते। न चान्यथाभावश्चित्तस्येति यथाक्रम योज्यम्। तथा चरन्निति। बुद्धानुज्ञातचर्यया चरन्नित्यर्थः । उपमंहरन्नाह। म चेद्दोधिसत्त्वो महासत्त्वेत्यादि (१p. 331, 2)। तदेवमग्रधर्मगतावस्थस्यैक आकारः स्यात् । यथोक्तैरेवाकारैर्निर्वेधभागीयस्थितो बोधिसत्त्वोऽनुत्तरबोधेन निवर्तते इति लष्टाणीयः। तथा चोक्तम् । रूपादिभ्यो निवृत्तिश्र विचिकित्साऽक्षणक्षयौ । आत्मनः कुशलस्थस्य परेषां तन्नियोजनम् ॥ ४० ॥ पराधारञ्च दानादि गम्भौरेऽर्थेऽप्यकांक्षणम् । मैत्रं कायाद्यमंवासः पञ्चधा ऽवरण न च ॥ ४१॥ मर्वानुशयहानञ्च स्मृतिमंप्रज्ञता शुचि।। चौवरादि शरौरे च कृमौणामममुद्भवः ॥ ४२ ॥ चित्ताकौटिल्यमादानं धूतस्यामत्सरादिता । धर्मतायुक्तगामित्वं लोकार्थ नरकैषणा ॥ ४३ ॥ परैरनेयता मारस्यान्यमार्गोपदेशिनः । मार इत्येव बोधश्च चर्या बुद्धानुमोदिता ॥ ४४ ॥ ऊष्मामुई मक्षान्तिष्ठधर्मेष्ववस्थितः। लिङ्गैरमौभिर्विशत्या सम्बोधेन निवर्तते ॥ ४५ ॥ इति । निर्वेधभागीयस्थावैवर्तिकलक्षणानन्तरं दर्शनमार्गस्थावैवर्तिकलक्षणं दखे धर्मज्ञानक्षान्त्यादिभिः पोडशभिः क्षणैर्वक्तव्यम् । तथा चोक्तम् ।। क्षान्तिज्ञानक्षणाः षट् च पञ्च पञ्च च दृक्पथे। बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम् ॥ ४६ ॥ इति
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy