________________
सप्तदशपरिवर्त्तः ।
गृहौतापरित्यागान्न चलति । तदेवं मूर्धगतावस्थस्य अधिगतसंप्रत्ययधर्मत्वेनापर प्रणय
४१०
पडाकारा भवन्ति । नार्थमाह । पुनरपरमित्यादि । दुःखादिसत्यचतुष्टयस्य माथोपमत्वेनावगमाद्धर्मतामित्यादि पदचतुस्कोपादानम् । न परस्य श्रइया गच्छतौति (p. 329, 4)। धर्मताप्रत्यक्षकारित्वान्न परमं प्रत्ययेन प्रतिपद्यते । एतदेव दृष्टान्तपूर्वकं स्पष्टयन्नाह । तद्यथापि नाम सुभूत इत्यादि । अनपहरणौयत्वादमंहार्यः । निवृत्त्यसम्भवादप्रत्युदावर्तएकान्तस्थितत्वान्नियतो भवति सर्वज्ञ
नौयधर्मा ।
तायाम् । एतदेव विस्तारयन्नाह । मम्यक्मम्बोधिपरायण इति । विदितबुद्धत्वोपायकौशलत्वेन प्रतिरूपमार्गोपदेशकमारस्य मारत्वावबोधार्थमाह । पुनरपरमित्यादि । एषेति प्रज्ञापारमिताचर्या । इहेत्यस्मिन्नेव जन्मनि दुःखस्यान्तं कुरु चतुरार्यसत्यभावनयेति शेषः ।
होतेत्यादि । अहो कष्टमिहैव तावत्तवायमात्मभावो धर्माधिगमवैकल्येन यदोत्तरकालमपरिनिष्पन्नोऽनभिनिवृत्तो भविष्यति, तदा कम्मात्पुनस्त्वमन्यमात्मभावं प्रणिधानादिवलेन मत्त्वार्थ प्रतिग्रहीतव्यं मन्यस इत्यर्थः । मारोऽयमित्यन्यमार्गोपदेशिनोऽवबोधेन निवर्तनासम्भवादविनिवर्तनौयः । तदेव क्षान्तिगतावस्थस्याकारद्रयं स्यात् । त्रिमण्डल विशुद्ध्या सर्वच बुद्धानुमोदितप्रतिपत्त्यर्थमाह । स चेद्दोधिसत्त्वस्येत्यादि(p. 330, 16 ) । चित्तं परतः श्रुत्वैवमिति । परस्मात्परतो मारादेव नैतदुभाषितमित्यादौनि विवेकपदानि श्रुत्वा चित्तं धर्मताया न परिहीयत