________________
अभिसमयालङ्कारालोकः ।
गात्रता ।
वाक्यपरिशुद्धिर्ब्रह्मस्वरादिरूपताद्वयमेतच्चित्त
परिशुद्धिकार्यत्वेनोक्तम् । अत एव चित्तपरिशुद्धिविभजनार्थं प्राधान्यादाह । का पुनरित्यादि । तत्र लाभादिनिरपेक्षत्वाच्चित्ताल्पकृत्यता । भृतदोषपरिलम्बनाभावाचित्ताशाद्यता । सम्यगभूतगुणसन्दर्शन वैकल्याच्चित्तामायाविता । यथाभूतवादित्वाच्चित्ताकुटिलता । मात्सर्यादिविविक्तत्वाञ्चित्तावता । यया चेति महायानप्रवण्या लाभसत्कारादिनिरपेक्षत्वेन द्वादशधूतगुणममादानार्थमाह । पुनर पर मित्यादि । तच लाभो द्रव्यप्राप्तिः । सत्कारो बहुमानता । श्लोकः कौर्तिः । न तद्गुरुको तत्प्रवणो भवति । तत्रेमे दादशधूतगुणाः । यदिदं । पांशुकुलिकत्वं चैचौवरिकत्वं, सर्वनामयिकत्वं, पैण्डपातिकत्वं, ऐकामनिकत्वं पश्चात् खलु भक्तिकत्वं, आरण्यकत्वं, वार्शमूलिकत्वं, अभ्यवकाशिकत्वं श्माशानिकत्वं नैकत्वं चेति । दानादिविशेषप्रतिपत्त्या पारमिताविपक्षमात्सर्यादिचित्तानुत्पादार्थमाह । नेर्ष्यामात्सर्यबहुला भवतौति ।
न
9
9
उपलक्षणत्वात्सर्वपारमिता
विपक्षी ग्राह्यः । धर्मधातुना सर्वधर्म मंग्रहाद्दर्मताऽविरुद्धप्रज्ञापारमितायोगगमनार्थमाहः । न च गम्भौरेत्यत्यादि । चालयितुमशक्यत्वात् स्थिरबुद्धिः । स्त्रक्ष्मार्थदर्शनाङ्गम्भीरबुद्धिः । संयोजनात्संस्यन्दयति । स्वात्मकृतसत्त्वधातुत्वेन परार्थनरका भिलापार्थमाह । पुनर परमित्यादि । गृहौत बोधिचित्तपरित्यागात् प्रतिदेशय (p. 328, 6 ) । पुनरनुत्पादनात्प्रतिनिःसृज । दोलायमानत्वाभावान्न शुभ्यति ।
,
४०६
-