________________
४०७
अभिसमयालङ्कारालोकः । पिष्टकिण्वजलैरन्या सुरा ज्ञेया विधा बुधैः । मैरेयं गुडधायंबुधातकी मंस्कृतं विदः॥ मदयेदशितं पोतं यत्तन्मद्यमिति स्मृतम् । तदेतन्त्रिविधं मवं शुक्लधर्मविपक्षतः ॥ प्रमादस्थानमित्याह प्रसङ्गादागतं पुनः। अभूताभिधानमन्तवचनम्। परभेदकं वचः पिशुनवचनम् । अप्रियाभिधानं परुषवचनम्। मल्लेशजनितं वाक्यं मम्भिन्नप्रलापः। अभिध्या परद्रव्येषु विषयस्पृहा। व्यापादः मत्त्वविद्देपः। नाम्तौति मिथ्याष्टिदर्शनम्। मर्वेण मन्त्रप्रयोगादिना। मवं निखिलमत्त्वविषयम। मर्वथा मृदादिनाऽपि प्रकारेण । म तचित्तमपि नाध्यापद्यत न कुर्यात्। परात्मपरिवर्तकत्वेन मर्वमत्त्वविषयपरिणामितदानादिकार्थमाह। पुनरपरमित्यादि (12. 3:29. !4) यं यं धर्ममितिसूत्रादिकं पर्यवाप्नोतौति स्वीकरोति। ददाति । फलेन मह प्रयच्छति। मम्यग्धर्मावबोधेन । गम्भीरधर्माकांक्षणार्थमाह। पुनरपरमित्यादि (p. 3:26. I) । तत्र मार्गान्तराभिलापोऽपर्याप्तितामुपादाय कांक्षा। ऋजुमार्गविलोमनं विमतिः। गोत्रधर्मस्य विविधकुशलवृद्धिगमनाभावेन विचिकित्सनादिचिकित्सा। मर्वथा बोधवैकल्याइन्धत्वम् । परहितप्रतिपन्नत्वेन मैत्रकायवाङ्मनस्कर्मार्थमाह। हितवचन इत्यादि। तत्र मैत्रकायकर्मणा योगादनागतपथ्याभिधायितया हितवचनः। तथैव वाकर्मसद्भावेन परिमितवचनान्मितवचनः। मैत्रीपरिभावितचित्तसमुस्थापितत्वेन श्रोत्रसुखादिकारित्वात् स्निग्धवचनः ।