________________
४०६
सप्तदशपरिवर्तः ।
विकल्पयति। ततोऽपौति। पर्षन्मण्डलात् । एवमेतदिति। रूपादिभ्यो निहत्तत्वेन। एवमेतत्तथतैव मत्या मोहोऽन्य इति चिन्ताश्रवणकालेऽधिमुञ्चत्यवगाहते। भावग्रहापरिदौपनान्न च यत्किञ्चित्प्रलापौ भवति। मायोपमप्रकाशकत्वेनार्थमंहितामेव वाचं भापते नानर्थमंहिताम्। धर्मताभावनाभियोगान्न च परेपां कृताकृतानि कार्याकार्याणि व्यवलोकयति । धारयितव्य इति । हेतुना यः ममग्रेण कार्योत्पादोऽनुमीयते, अर्थान्तरानपेष्ठत्वात्स स्वभावो ऽनुवर्णित इति न्यायाद्योग्यतानुमानेन निश्चेतव्यः। अवेत्य प्रमादलाभेन विचिकित्साशायमावेदयन्नाह । पुनरपरमित्यादि। मुखमुल्लोकयतीति। ज्ञातव्यतत्त्वपरिज्ञानादिमम्भावनाशयेनाराधनतया न मुखं निरौष्ठते । व्यपाश्रयत इति (1) 324. 4)। शरणादिभावान्न स्वीकरोति । प्रणिधानममृड्याऽष्टाक्षणक्षयार्थमाह । म खल पुनरित्यादि। नापायेधूपपद्यत इति। नरकप्रततिर्यगुपपत्त्यभावः माक्षात् कथितः। उपलक्षणत्वादस्य मिथ्याष्टिबुद्धवचनाश्रवणप्रत्यन्तजनपदोत्पादाभावी ग्राह्यः। न च स्त्रीभावं परिगृह्णातौति। स्त्रीभावप्रतिषेधवचनादिन्द्रियजडमूकभावं न गृह्णातौति लभ्यते। चशब्दान्न दौर्घायुष्कदेवोपपत्तिं गृह्णातीत्यर्थः । कारुणिकतया स्वपरकुशलधर्मनियोजनार्थमाह । पुनरपरमित्यादि। तत्र प्राणातिपातः परेषां जौवित क्षयः। स्थानान्चौर्येण परद्रव्यव्यावनमदत्तादानम्। अनङ्गादौ स्त्याद्यभिगमनं काममिथ्याचारः ।
वल्कलैः सगुणैः काचित्क्रियते मधुनाऽपरा ।