________________
अभिममयालङ्कारालोकः ।
४०५
अवैवर्तिकबोधिसत्त्वसंघस्य यथोक्तनिर्वेधभागीयमन्यदपि दर्शनमार्गादिकमित्यवैवर्तिकबोधिसत्त्वसंघो वक्तव्यः। स तु निर्वेधभागीयप्रयोगमार्गस्थस्तथा शान्तिज्ञानसङ्गहौतदर्शनमार्गस्थोऽपरश्च प्राबन्धिकभावनामार्गस्थ इति व्यवस्था भवति । तथा चोक्तम् । निर्वेधाङ्गान्यपादाय दर्शनाभ्याममार्गयोः । ये बोधिमत्त्वा वर्तन्ते मोऽवावैवर्तिको गणः ॥ ३८॥ इति
तत्र रूपादिनिवृत्तिनिर्विचिकित्साद्याकारैविंशतिप्रकारैर्निर्वेधभागीयस्थानामवैवर्तिकलष्टाणं ज्ञेयम् । तथा चोक्तम् ।
रूपादिभ्यो निवृत्त्याद्यैर्लिङ्गविंशतिधेरितैः । निर्वेधाङ्गस्थितन्येदमवैवर्तिकलक्षणम् ॥ ३९ ॥ इति तथतास्वभावत्वाद्पादिभ्यो निवृत्तिं ॥ तावत्प्रतिपादयितुमाह । अविनिवर्तनौयत्येत्यादि (p 32:3, 5) । तत्राकाराः प्रतिपक्षमंगृहीताः। लिङ्गानि स्वाश्रयचिह्नानि । निमित्तानि तत्परिभोगोपकरणगतानि। अथवाकारः कायिको हर्पविशेषो रोमोगमाश्रपातादिः। लिङ्गं वचनविशेषः प्रहर्षाध्येषणादिः। निमित्तमनुष्ठानविशेषः। श्रवणधारणवाचनपूजनादिः। पूर्वपूर्वव्याख्याभूतान्यमूनि वा पदानि । कथं वा वयम्भगवञ्जानौयाम इत्यनेनामकोणप्रतिपत्तिनिमित्तं प्रश्नयन्नाह। परिहरन्नाह। या च सुभूत इत्यादि। तथताभूमिरिति मर्वभूमेर्मायोपमत्वात् । तंदेवाह । सर्वा इत्यादिना। युक्त्यागमाभ्यां निश्चितत्वेनान्यथा कारणासम्भवाद्यथासंख्यं न कल्पयति । न