SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ षोड़शपरिवर्तः । मूर्द्धानमधिकृत्याह । स्वयचेत्यादि (p. 322 1 ) । इदमुक्तं स्यात् । स्वयं सर्वपापान्निवृत्तस्य दानाद्येषु प्रतिपत्त्या स्थितस्य च । तथैवान्येषां पापनिवृत्तौ समादापनेन कुशलप्रवृत्तौ ममादापनवर्णवदनसमनुज्ञानाकारैरालम्बने मूईगतमुद्यत इति । तथा चोक्तम् । स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च । तयोर्नियोजनान्येषां वर्णवादानुकूलते ॥ ३६ ॥ मूईगम् इति । शान्तिमधिकृत्याह । एवं सत्येषु यावदोधिमत्त्वन्यामावक्रान्ताविति । यथा मूईसु स्वपराधिष्ठानभेदेनालम्बनाकारभेदो व्याख्यातस्तथा दुःखादिमत्यचतुष्टयप्रथमफलादिकं प्रमुदितादिभूमिच्च स्वयं परिजानतोऽन्येषाञ्च तचैव समादापनादिभिराकारैगलम्बने शान्तिरुत्पद्यत इत्यर्थः । तथा चोक्तम् | स्वपराधारं सत्यज्ञानं तथा क्षमा इति । धर्मानधिकृत्याह । सत्त्वपरिपाचन इत्यादि । ४०२ तत्रानावरणं रूपं बोधिसत्त्वाभिज्ञादि, सर्वधर्मस्थितिबुद्धत्वम् । इदमुक्तं स्यात् । स्वयं सत्त्वपरिपाचनादौ स्थितस्यान्येषामपि तत्र समादापनादिभिराकारैरालम्बने धर्मा भवन्तौति । तथा चोक्तम् । तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः ॥ ३७ ॥ इति एतानि पुनर्निर्वेधभागौयानि मृदुमध्याधिमात्रभेदाप्रत्येकं त्रिविधानि भवन्ति । तत्र मृदूष्मगतं सममैचचित्ताभ्यां तदात्वे पराविहेठनतामुपादाय, मध्यं हितादि
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy