________________
अभिसमयालङ्कामालोकः ।
४०१
नावगमात् । निर्नानाकाराणता यथोक्तप्रकारव्यतिरेकेण पृथक्कर्तुमशक्यत्वात् । मृदमध्याधिमात्रमोक्षभागीयसमन्वागमाद्यथाक्रमञ्चित्तं नावलौयत इत्यादि पदवयं योज्यम् । धर्मताऽविरुद्धार्थ कथयन्नाह। साधु साध्वित्यादि। अनेकप्रकारबोधिभेदादाह। कतमयेत्यादि। सुगमम् (p 321. 6) । उत्पन्नमोक्षभागीयस्योत्साहिनो निर्वेधभागीयार्थमाह । अनुत्तरायां भगवन्नित्यादि। समं स्थातव्यमित्युद्देशं निर्दिशन्नाह। सर्वमत्त्वेधित्यादि। ममचित्तमनुनयाभावात् न विषमचित्तं देपविरहात्। मैत्रचित्तेनेति । प्रत्युत्पन्नार्थचित्तेनेति। हितचित्तेनेति । अनागतार्थचित्तेन मैत्रहितचित्तयोरेवार्थमाह। कल्याणचित्तेन निहतमानचित्तेनेति। अप्रतिहतचित्तेनेति। प्रतिघविविक्तेन । तदेवाह। अविहिंमाचित्तेनेति। अविहेठनाचित्तेनेति । तयोत्पादरहितेन । मातृमंज्ञामित्यादि सुगमम्। किन्तु भ्रातभगिनौमित्रामात्यनातिसालाहितसंज्ञाशोपलक्षणत्वेनावगन्तव्याः। तत्र च मातापित्रादीनां दयं इयमेकैकं कृत्वा पञ्चाकारा वक्तव्याः। सर्वसत्त्वानामहं नाथ इति इदमुक्तं स्यात् । सममैत्रहिताप्रतिघाविहेठनाचित्ताकारैः पञ्चभिर्मातापितृभ्राभगिनौपुत्रदहिमित्रामात्यज्ञातिमालाहितचित्ताकारैश्च सर्वसत्त्वालम्बने सम्यगष्णगतकुशललाभात्सर्वसत्त्वानां त्रातेति । तथा चोक्तम् ।
आलम्बनं सर्वसत्त्वा ऊष्मणामिह शस्यते । समचित्तादिराकारस्तेष्वेव दशधोदितः॥ ३५ ॥ इति
5l