________________
षोडशपरिवर्तः ।
निकबोधिसत्त्वानां त्रयाणां व्यवस्थानं न स्यात्, तथाभ्युपेतविरोध इति भावः । सर्वधर्मानुत्पन्नत्वेऽपि बोधिसद्भावेनान्यतमैकबोधिसत्वाभ्युपगमात्कथं त्रिविधबोधिसत्वव्यवस्थानमापद्यत इत्याह। किं पुनरायुष्मन्नित्यादि। किमेकमपि बोधिसत्त्वमायुष्मान् सुभूतिः स्थविरो नाभ्युपगच्छति। यतस्त्रिविधपुद्गलासत्त्वञ्चोद्यत इत्यर्थः। जानबपि तद्दचनेन परिहारं दापयितुमाह। प्रष्टव्यस्तावदयमायुष्मान् सुभूतिः स्थविर इति । तमेव प्रश्नयन्नाह । किम्युनत्वमित्यादि। परिप्रश्नेन परिहरन् वक्तुमाह । किम्पुनरायुष्मनित्यादि (p 320, I)। तथतायास्तथतेति। अनुत्पादस्यापि तत्त्वतोऽसत्त्वम्। न ह्येतदिति विवृण्वन्नाह। तथापीत्यादि। त्रिभिराकारैरिति श्रावकयानादिप्रकारैर्व्यवच्छेदफलत्वाबाह्यस्यैकेन तोपलभ्यत इत्याह। किं पुनरित्यादि। एकेनापौति। महायानात्मकेनापि प्रकारेण तुल्यत्वान्यायस्येत्याह। न ह्येतदिति। आधेयमपि निराकर्तुमाह । कच्चित्पुनरित्यादि। न ह्येतदिति गतार्थम् । प्रकृतार्थमुपसंहरन्नाह। एवमायुष्मन्नित्यादि। कुतस्तवैवम्भवतीति। योगिसंवृत्यानुत्तरा बोधिरिति न तबलात्परमार्थतो बोधिसत्त्वास्तित्वम्। ततश्चायं श्रावकयानिक इत्यादि, कस्मात्तवैवम्भवत्यपि तु नैवञ्चित्तमुत्पादयितव्यमिति यावत् । चोद्यपरंपरया प्रसङ्गागतमेवार्थ मोक्षभागीयलिङ्गत्वे योजयन्नाह । एवमेतेषामित्यादि। प्रविभाव्यमानानामिति निरूप्यमाणानाम्। तत्राविशेषता त्रिविधबोधिसत्त्वस्य भेदानुपलम्भात्। निर्विशेषता तथतैकत्वे