________________
३६६
अभिसमयालशारालोकः । निवर्तेत। किमिति सर्वत्र प्रश्ने धर्मताभिप्रायेण पृथक्त्वादाह। नो हौदमिति वाक्यार्थः। प्रमुदितादिसप्तभूमिषु सामान्येन विवृत्त्यसम्भवं निर्दिश्याचस्लादिभूमिचयेण पुनर्बोधकबोध्यधर्मभेदेनाह। किं पुनरायुष्मन् शारिपुत्र रूपमभिसम्बुध्यत इत्यादि (p. 316, 8) । समन्तप्रभां बुद्धभूमिमधिकृत्याह। तत् किं मन्यस इत्यादि (p. 318, 18)। तत् कतम इति । तस्मान्निवृत्त्यसम्भवादेव कारणाद्यस्तस्यामेव धर्मतायां शून्यतायां सर्वानभिनिवेशयोगेन स्थितः कतमः स धर्मो विवर्तते। नैव कञ्चिदित्यर्थः । कतमो वेति (p 319, 4)। नैव कश्चित् । कच्चिदिति निपातोऽपि नुशब्दार्थे वर्तते। उपसंहरन्नाह । एवमायुमन्नित्यादि। सत्यत इति परमार्थसत्यतः। स्थितित इति प्रज्ञप्तिव्यवस्थानत इत्येके। ज्ञानज्ञेयस्वभावतत्त्वविरहाद्यथाक्रमं सत्यत: स्थितितः इत्यपरः। संशतिसत्याश्रयेण स्वभिसम्भवत्वं निराक्रियमाणं परमार्थतो यदि साध्यते, तदा प्रकृतानुपयोगौत्याह। ययेत्यादि। यया धर्मनयजात्या येन धर्माणामनुत्पादप्रकारेण निर्दिश्यते, तथा न कश्चिदिवर्तते, किन्तु संरत्या विवर्तत इति मतिः। संवृतिरेव नास्तीति चेत्। तत्र न केवलं प्रत्यक्षादिबाधा किं तभ्युपेतबाधापौत्याह। ये च खलु पुनरिम इत्यादि। व्यवस्थानं न भवतीति सर्वधर्मानुत्पादधर्मनिर्देशेन यस्मादेकमेव बोध्यात्मकं सत्त्वं चित्तं तदेव यातव्यत्वाद्यानं बोधिसत्त्वयानं बुड्डयानं तथागतभूमिसंगृहीतं, तस्माइत्ववस्थाश्रावकादियानत्रयानुत्पत्तेस्तद्या