________________
३९८
घोरशपरिवर्तः। सम्बध्येताभिसम्बोधव्यमिति । विमुक्तिमार्गावस्थायाम् । आजानौयादाज्ञातव्यमिति। विशेषमार्गेण। अनेनापति कर्तकर्मक्रियानुपलम्भेनापि। शून्यत्वेऽपि स्वभिसम्भवत्वं नास्तीत्याह। असम्भवत्वादित्यादि (p. 314, 4)। तत्र हेतोरसत्त्वादसम्भवत्वं, कार्याभावादसद्भूतत्वम् । ततो लौकिकलोकोत्तरज्ञानाविषयत्वाद्यथाक्रममविकल्पितत्वमविठयितत्वमिति पदद्दयं योज्यम, इदमुक्तम्भवति। धर्माणामनुत्पन्नत्वेन ज्ञानाविषयत्वात् कथं स्वभिसम्भवानुत्तरा सम्यक्सम्बोधिः किन्तद्देवं धर्माधिमोक्षेऽपि पुण्यज्ञानसम्भारमुपाज्यं योगिसंवृत्या मायापुरुषेणेवाधिगम्यमानत्वाद्दरभिसम्मवैति । एतदेवोपोहलयन्नाह। शून्यमित्यनेनापौत्यादि। तथैव तत्कस्य हेतोरित्याशङ्याह। न ह्यायुष्मन्नित्यादि । अभिसम्भोत्स्य इति। शून्यत्वेनाकाशस्वभावस्य बोधिसत्त्वस्याहमभिसम्भोत्स्य इत्येवं प्रयोगाभावादेव दरभिसम्भवेत्यर्थः। एवञ्चेत्यादि। निःस्वभावा एवाभिसम्बोधव्याः। पूर्ववत्तत्कस्य हेतोरित्याशङ्मयाह । आकाशेत्यादि। धर्मा यस्मादाकाशसमास्तथा चोत्यादवैधुर्याहुरभिसम्भवा बोधिरित्यर्थः। संरत्यापि स्वभिसम्भवत्वं निराकुर्वन्नाह । यदि चायुष्मन्नित्यादि विवर्तेरनित्यभिलाषसद्भावान्न त्वेवं निवर्तेरन्। व्यतिरेकमुखेन निर्दिश्य, अन्वयमुखेनाह। यस्मात्तीत्यादि। वित्तिरेव न सम्भवति। तत्र कथं तया दुरभिसम्भवत्वमिति आह । किं पुनरित्यादि (p. 315, 3)। रूपादयो धर्मिणस्तद्यतिरिक्ता वा तथता रूपादितथतालक्षणो धर्मस्तत्पृथग्भतो वा निवर्तमानो