________________
अभिसमयालङ्कारालोकः ।
बुद्ध्याद्यालम्बना श्रड्डा वौर्यं दानादिगोचरम् । स्मृतिराशयसम्पत्तिः समाधिरविकल्पना ॥ ३३ ॥ धर्मेषु सर्वैराकारैर्ज्ञानं प्रज्ञेति पञ्चधा ॥ इति साधूक्तत्वेनानुवदन्नाह । एवमेतदित्यादि । एवमपि न सर्वैरनुत्तरा सम्यक् सम्बोधिः श्रादिभिः प्राप्येत्याह । गम्भीरेत्यादि (p. 313, 6) । मध्यैः श्रवादिभिरप्राप्यमाणत्वाद्दुरभिसम्भवा। मृदुभिस्तैरेवानधिगम्यमानतया परमदुरभिसम्भवा । तथैवानुवदन्नाह । एवमेतद्देवपुचा इत्यादि । दुःप्रज्ञैरित्यादि । सर्वाकारधर्मपरिज्ञानविरहाद्दुः प्रज्ञाः । दानादिविषयवौर्यवैकल्येन हौनवौर्याः । सर्वाविकल्पनसमाधिवियोगेन हौनादिमुक्तिकाः । बुद्धाद्यालम्बनश्रड्डाऽभावादनुपायकुशलाः । हितवस्त्वादिस्मरणवैधुर्यात्पापमिचसंसेविनः । अनेनेदमुक्तं स्यात् । धर्मतेयं यतोऽधिमात्रैः श्रवादिभिः सम्यक् सम्बोधिः सुबोधा मृदुभिस्तैरेव दुर्बोधेत्यर्थादिदमाक्षिप्तम् । मध्यैः प्रत्येक बोधिर्मृदुभिः श्रावकबोधिरिति । तथा चोक्तम् ।
३८७
तौष्क्ष्णैः सुबोधा सम्बोधिर्दुर्बोधा मृदुभिर्मता ॥ ३४ ॥ इति । परमार्थसत्याश्रयेण दुरभिसम्भवत्वं विघटयन्नाह । यद्भगवानेवमित्यादि । कथमिति । क्षेपेणैवेत्यर्थः । कथं न किचिदभिसम्बुध्यत इति । तत्कस्य हेतोरित्याशङ्कयाह । शून्यत्वादिति । अनुत्पन्नत्वादभिसम्बोधव्यो धर्मो नास्तीत्यर्थः। तदेव स्पष्टयन्नाह । तथा हि भगवन्नित्यादि । प्रहाणायेति क्लेशानामानन्तर्यमार्गेण प्रहाणार्थम् । अभि