________________
षोडशपरिवर्तः ।
नवगमनान्न जानाति, न पश्यतीति योज्यं परिणामयितुमिच्छतीति । शून्यतैवानुत्तरा सम्यक्संबोधिरिति । परिणामनात्पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह ।
एवं हौत्यादि । मोक्षभागौयनिर्देशाधिकाराद्यतिरेकनिर्देशे - नेदमुक्तं स्यात् । अनिमित्तालम्बनज्ञानाकारेण दानादिसर्वबुद्धधर्माणां स्वसन्ताने प्रादुर्भावात् समुदागमे कर्तव्ये यत् कौशलं प्रज्ञापारमितोपायलक्षणं, तदस्मिन् सर्वाकाराभिसम्बोधे मोक्षभागौयमिष्टम् । मोक्षोऽच विसंयोगविशेषस्तद्भागहितत्वान्मोक्षभागौयं प्रथमतः सर्वाकाराभिसम्बोधात्मके शासनेऽवतारहेतुभूतं श्रुतचिन्तामयमतः प्रज्ञोपायकौशलविरहाद्भूमिद्दये पात इति । तथा चोक्तम् । अनिमित्तप्रदानादिसमुदागमकौशलम् ।
३७६
सर्वाकारावबोधेऽस्मिन् मोक्षभागौयमिष्यते ॥ ३२ ॥ इति कौशलमेवं स्पष्टयन्नाह । यथाहमित्यादि । भाषितस्येति स्थास्यत्ययं श्रावादिभूमावित्यस्य यथाहमर्थमाजानामि, तथा बहुपुण्यसम्भारादिना महाबोध्यधिगमे संशयो भवति । कथं तर्हि प्राप्यत इत्याह । तस्मात्तहत्यादि । प्रज्ञापारमिता भावयितव्या । उपायकौशलेन च भवितव्यमिति । तच प्रज्ञापारमिता सर्वाकारैर्निखिलधर्मपरिज्ञानम्। उपायो बुडादिविषये श्रड्डा । दानादौ वौर्यम् । कल्याणकामतादेः स्मरणम् । कर्मकर्तृक्रियाऽनुपलम्भश्च समाधिः । तदेवमिन्द्रियार्थाभावादनिन्द्रियस्वभावश्रड्डावौर्य समाधिप्रज्ञास्वभावं पञ्चप्रकारं मोक्षभागौयं कुशलमूलमुपार्जनीयमित्युक्तं भवेत् । तथा चोक्तम् ।