________________
व्यभिसमयालङ्कारालोकः ।
३८५
शारिपुत्रेत्यादि ।
उपचर्यार्थमाह । किश्वापीत्यादि ।
स्पष्टार्थश्च दृष्टान्तमाह । तद्यथापीत्यादिना । पक्षिणः शकुनेरिति पक्षौ द्वावस्येति पक्षौ नरोऽपि मिचारिपक्ष सद्भावात्पक्षौ स्यादिति शकुनिग्रहणम् । शिवादिरपि शकुनिः स्यादिति पक्षौतिवचनम् । नो हौदमित्यादिवचनं (p. 311, 6) नियुक्तिकमेवेति । तत्कस्य हेतोरित्याशङ्कयाह । गुरुद्रव्यस्योर्ध्वप्रदेशात् पाते वस्तुधर्मत्वेन नियमात् । क्षतत्वादिकमाह । एवं तदित्यादि । दान्तिकार्थमाह । एवमेतदित्यादि । पततौति । दानादिप्रयुक्तस्यापि प्रज्ञापारमितोपायकौशलप्रयोगमन्तरेण श्रावकादिभूमौ पातो भवति, अनेन च तदुभयप्रयोगस्य निर्याणे प्राधान्यमावेदितम् । यथानिर्दिष्टं षोडशप्रकारमेव स्वभावलक्षणं ग्राह्यम् । तथा चोक्तम् । क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः । विवेको दुष्करैकान्तावुद्देशोऽनुपलम्भकः ॥ २८ ॥ निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः । विप्रत्ययोऽविघातौ च सोऽपदागत्यजातिकः ॥ ३० ॥
तथतानुपलम्भश्च स्वभावः षोडशात्मकः । लक्षौव लक्ष्यते चेति चतुर्थं लक्षणं मतम् ॥ ३१ ॥ इति । यथोक्तप्रयोगपरिज्ञानं मोक्षभागौयकुशलमूलवत् एवेति । मोक्षभागौयं वक्तुमाह । पुनरपरं शारिपुत्र बोधिसत्त्व इत्यादि । तचाभिमुखौकरणात्समन्वाहरति । निश्चयप्रभावेनावधारयति । निमित्तयोगेनेति (p. 312, 2) | एकान्ताभिनिवेशयोगेन । लौकिकलेाकोत्तरज्ञानाभ्याम