________________
२६४
षोडशपरिवर्तः । यावत् संप्रागर्जदित्यर्थनिर्देशद्भवन्ति । अथवा मध्यादन्नमत्यन्तेऽवनमतौत्येकः। अयमेव च विपर्ययेण द्वितीयः । तथा हि पूर्वा दिगुन्नमत्यपरा दिगवनमतौति तृतीयः । अयमेव विपर्ययाच्चतुर्थः । तथा दक्षिणा दिगुन्नमत्युत्तरा दिगवनमतौति पञ्चमः । अयमेव विपर्ययेण षष्ठ इति षड्विकारा भवन्ति । अष्टादशमहानिमित्तानि पुनस्तथैवावगन्तव्यानि। उपसंहरन्नाह। एवं होत्यादि (p. 309, 9)। तथागतमनुजात इति। एवं सर्वज्ञताकारानुजातत्वेनानुजातः। अजातिस्वभावं कथयन्नाह। पुनरपरं सुभूतिः स्थविरो न रूपमित्यादि। तथैव तत्कस्य हेतोरित्याशङ्ख्याह । तथा होत्यादि,। सुगमम् । एवं हौति । एवं मायोपमत्वान्मार्गज्ञताकारानुजातत्वेन तथागतमनुजातः। तथतानुपलम्भस्वभावं निर्दिशन्नाह। गम्भौरचर्येयमित्यादि। सर्वाकारज्ञताकारस्वभावानुपलम्भात्तथता गम्भीरचर्या । साधूक्तत्वेनानुवदन्नाह। एवमेतदित्यादि। भगवतां न विफला धर्मदेशनेत्याह। अस्मिनित्यादि। पूर्वपरिकर्मकृतैरिति । सम्भारभूम्यादौ समुपार्जितपुण्यज्ञानसम्भारैः पूर्वपरिकर्मभिः कृता निष्यादिता ये तैर्मायोपमधर्मभावनायां शान्तिरधिमुक्तिः प्रतिलब्धेत्येके। सर्वचगधर्मधातुप्रतिवेधादनुत्पत्तिकधर्मक्षान्तिरधिगतेत्यपरे। केन कारणेन महायानप्रवृत्तानां हीनयानावकाशो भवतीत्याह । को भगवन् हेतुरित्यादि (p. 310, 5) । तत्र हेतुरूपादानकारणं प्रत्ययः सहकारिकारणं, प्रज्ञोपायकौशल्यवैकल्यं कारणमित्याह । एतैः