________________
अभिसमयानधारालोकः ।
३९१ बोधाभ्युद्यतमतयोऽयं मायोपमं चित्तं तथ्यसंरतिरूपमेव श्रुतचिन्तामयेन ज्ञानेन व्यवस्थाप्य प्रतीत्यसमुत्पादधर्मतया सर्वाकारज्ञताद्यष्टाभिसमयक्रमेण सादरनिरन्तरदौर्घकालविशेषभावनया भावयन्तः संहृतसकलविकल्पमाभवमनुबद्धं मायोपमादयविज्ञानमात्रप्रबन्धमासादयन्ति योगौशाः। स एव मुख्यः प्रतिपक्षः। प्रथमं तु मायोपममिति साभिजल्यं विज्ञानं व्यवस्थापकं तदनुगुणं न तु मुख्यप्रतिपक्षभूतम्। तथा हि बाह्यार्थनये पुनलनैरात्म्यादिभावनापि न वस्तुरूपञ्चेतस्यवस्थाप्य क्रियते। वस्तुनो निर्विकल्पज्ञानसमधिगम्यत्वात्तस्य चादावसम्भवात्। भावे भावनावैयर्यप्राप्तः तस्मात्तचाप्ययं परो नाममात्रानुस्यतविकल्पप्रतिबिम्बे तत्त्वावबोधानुकूल्यभाजि वस्त्वध्यवसायो सन्तुष्यति । तदच नामाकाराभ्यासात् कथं जल्यो न विवर्धितो भवति । स्तिमितान्तरात्मनः क्रमेण विकल्पसंहार इति चेत् । तदेतदितरचापि समानमित्यलमतिप्रसङ्गेन। तदेवं सर्वाकाररमणीयतथतानिर्देशस्य माहात्म्यख्यापनाय न धर्मताबलानिमित्तमुत्पन्नमित्याह । अस्यां खलु पुनरित्यादि। षड्विकारमष्टादशमहानिमित्तमिति क्रियाविशेषणत्वादेकवचनम्। तत्र च दौ विकारौ भाजनलोके, अभिसंस्कृतामनभिसंस्कृतां च पृथिवीमधिकृत्य यथासंख्यं चलनमुन्नमनञ्च । सत्वलाके चतुविधसत्वनिकायमकुशलिनं नानादेवताधिमुक्तं मानिनं विद्यावन्तश्चाधिकृत्य यथाक्रममवनमनमूर्ध्वगमनमधोगमनं घोषोन्नदनं च। अष्टादशमहानिमित्तानि पुनरेषामेव घणां विकाराणां मुदमध्याधिमात्रक्रियाभेदेनाकम्पत्