________________
२६२
बोडशपरिवर्तः।
देतत् । तदेवं कस्यचित्पारमार्थिकस्य भावस्य प्रज्ञाचक्षुषाऽदर्शनमेव परमं तत्त्वदर्शनमभिप्रेतं न तु निमौलिताक्षआत्यन्धादौनामिव प्रत्ययवैकल्यादमनसिकारतो वा यदर्शनम् । ततो भावादिविपर्यासवासनाप्रहाणभावादसंजिसमापत्त्यादिव्यत्थितस्येव भावादिविपर्यासवासनाप्रभवक्लेशज्ञेयावरणस्योत्पत्तेरमुक्त एव योगी भवेत्। यस्माच्च यथोक्तमेव तत्त्वज्ञानं मुक्त्यावाहकं नान्यथातिप्रसङ्गादतः प्रागुतमेव परमतत्त्वदर्शनं ग्राह्यं, तेन सर्वदोषविरोधिनैराग्यदर्शने प्रत्यक्षीकृते सति तबिरुवत्वात् क्लेशावरणं ज्ञेयावरणञ्च प्रहीयते। अतः प्रतिबन्धाभावाद्रविकिरणवदपगतमेघाद्यावरणे नभसि सर्वत्र प्रतीत्यसमुत्पन्ने वस्तुनि तत्त्वोत्पत्त्यादिकल्पनारहितेऽव्याहतो योगिप्रत्यक्षो ज्ञानालोकः प्रवर्तते। तथाहि वस्तुस्वभावप्रकाशरूपं विज्ञानम्। तच्च सन्निहितमपि वस्तु प्रतिबन्धसद्भावान्न प्रकाशयेत् । प्रतिबन्धाभावे सत्यचिन्त्यशक्तिविशेषलाभात् किमिति सकलमेव वस्तु न प्रकाशयेत् । अतः संशतिपरमार्थरूपेण सकलस्य वस्तुनो यथावत्परिज्ञानात्सर्वाकारज्ञत्वमवाप्यते। अतोऽयमेव सर्वावरणप्रहाणे सर्वाकारज्ञत्वाधिगमे च परमः पन्थाः, विशेषत्वयं योगिनां पृथग्जनेभ्यः। ते हि मायाकारा इव मायां यथावत्यसिद्धमात्राऽसत्यतापरिज्ञानान्न भावान् सत्यतोऽभिनिविशन्ते । तेन ते योगिन इत्युच्यन्ते। ये तु तां मायां बालप्रेक्षकजनवत्सत्यत्वेनाभिनिविष्टास्तबद्भावमपि ते विपरीताभिनिवेशादाला उच्यन्त इति सर्वमविरुद्धम् । ततश्च युक्त्यागमाभ्यां परिविदितमायोपमादयचित्तास्तत्त्वातत्त्वाव