________________
अभिसमयालदारालोकः ।
३६१ विकल्प इति वक्तव्यम् । एतेन यदेके वर्णयन्ति प्रेक्षावतः प्रमाणोपपन्नेऽर्थे सत्यत्वेनाभिनिवेशोऽन्यवालोकत्वेन युक्तोऽन्यथा प्रेक्षावत्त्वहानिप्रसङ्गादतः सत्यालौकत्वाभिनिवेशस्य दस्त्यजतया कथं सर्वविपर्यासप्रहाणमिति। तदपि प्रत्युक्तम्। अभिनिवेशस्य ज्ञानादव्यतिभिन्नमूर्तित्वात्तदभावे कथमभिनिवेशस्य युक्तरूपतेति । तदेवं भावाभावविकल्पाभ्यां सर्वविकल्यस्य व्याप्तत्वाद्यापकाभावे व्याप्यस्यासम्भवात्तत्त्वतो भावाभावपरामर्शरहितानविचाररमणीयानन्तबहिःसारविरहिणः कदलोस्कन्धनिभान् सर्वभावानेवं सर्वाकारज्ञतादृष्टाभिसमयक्रमेण प्रज्ञाचक्षषा निरूपयतो भावनाबलनिष्यत्तौ केषाञ्चिन्मणिरूपादिज्ञानवदत्सारितसकलभ्रान्तिनिमित्त एव स्वतः प्रमाणभूतो यथाभूतार्थग्राहित्वान्मायोपमादयज्ञानात्मसंवेदनो विशुद्धमारतकारणनिर्जातः सर्वविपर्यासप्रहाणादकरुणाप्रज्ञास्वभावः सांस्तो ज्ञानालोकः समुपजायते, प्रतीत्यसमुत्पादधर्मतया यथा न पुनः कल्पनाबीजं प्रादर्भवति । एवञ्च यदच्यते कैश्चिविद्ययाविद्याक्षयो, विद्या च यथार्थज्ञानं ताथागतमपि यदि ज्ञानं भवतां मांडतं तस्मादविद्यारूपत्वादिद्यायाः समुत्यादाभावे कथमविद्याविनिवृत्तिर्यावच्चाविद्या न प्रहोणा तावत्कथं मुक्तिरिति । तदसङ्गतम् । तथा हि नित्यत्वादिसमारोपितधर्मप्रतीतिरविद्या। तविपरीतप्रमाणाबाधितधर्मप्रतौतिस्तु विद्येति । विपर्यासाविपर्यासनिबन्धनं तयोय॑वस्थानमतिप्रतौतमतः सारतत्वेऽपि विरुद्धधर्मोदयाद्यथाभूतपदार्थावगमेन विपर्यासनिवृत्तौ कुतस्तन्निबन्धनमविद्यात्वं येन तदप्रहाणान्मुक्तिरसङ्गतेति यत्किञ्चि