________________
षोडशपरिवर्तः।
बहोरूपतयाऽलीका ज्ञानरूपतया तु ते पारमार्थिका एवेति प्रतिभासनं युक्तमिति चित्ररूपतया देशस्थतया च तेषां प्रतिभासनात् । नहि ज्ञानमेकं चित्रं युक्तमेकत्वहानिप्रसङ्गात् । अनेकज्ञानोत्पत्तेश्च पूर्वनिषिद्धत्वात् नापि देशस्थममूर्तत्वात्। तस्मान्न विचन्द्रादयः पारमार्थिकाः तथा च प्रतिभासन्त इति पारमार्थिकस्वभावनिवृत्तौ प्रतिभासनता विरुध्यत इति तात्त्विको भावाभ्युपगमो न कार्यः। नाप्यभावाभ्युपगमो भावनिवृत्तिलक्षणत्वात्तस्य, भावासिद्धौ निर्विषयस्य नञोऽप्रयोगेणासति निषेध्ये निषेधस्याप्रवर्तनात्, तत्पूर्वकस्य तस्याप्यसिद्धेरैकान्तिकभावाभावपक्षभाविनो दोषा नास्मानुपालीयन्ते। ततश्चान्योन्यव्यवच्छेदरूपत्वादेकप्रतिषेधनान्तरोयकमपरविधानं बलादापतितमिति यदच्यते तदसङ्गतं, तत्त्वतो भावरूपस्य व्यवच्छेद्यस्याभावात् । एवञ्च भावाभावस्वरूपाभावे साक्षात् पारम्पर्येण वा ज्ञानज्ञेययोरप्रतिबद्धत्तित्वान्न तद्विषयो विकल्पः सर्वथा तात्त्विक इति सिद्धम् । न च मन्तव्यमनादिवासनोद्भूतो भावाभावस्वरूपाभावेऽपि तद्दिषयो विकल्पः शशविषाणादिविकल्पवदपजायत इति। तथा हि यदि नाम बाह्ये वस्तुनि न प्रतिबद्धस्तथाऽपि पूर्वके ज्ञाने तदव्यतिरिक्तवासनाप्रबोधेनोत्पादनात्तदत्पतिलक्षणः प्रतिबन्धोऽस्यात्स्येव तथा समानकालभाविनि विज्ञाने तदव्यतिरिक्तत्वेन तादात्म्यलक्षण इति विकल्पारूढप्रतिबिम्बस्य केनचित् प्रकारेण विधिप्रतिषेधाभ्यां व्यवहारः। यतो यथोदितविधिना वासनाप्रभवज्ञानाभावेन तत्पतिबिम्बविरहादिकल्यानुत्पत्तः कुतो भावाभावस्वरूपाभावे