________________
अभिसमयानधारालोकः।
३८
संवृत्या कर्मफलसम्बन्धव्यवस्थापनेनागमविरोधस्याभावात्तविरोधोऽपि नोद्भावनौयः। अथ मतम् । निःस्वभाववादिनः सर्वार्थाभावादाश्रयासिङ्घतादयो दोषा दुर्निवारा इति। तदसत् । तथा हि सर्व एवानुमानानुमेयव्यवहारः परस्परपराहतसिद्धान्ताहितधर्मभेदपरित्यागेनाबालजनप्रतीतं धर्मिणमाश्रित्य प्रवर्तते । तत्प्रतिबद्धो हेतुः सिद्धस्तथा दृष्टान्तोऽपि । अन्यथा यदि सिद्धान्ताश्रितो हेतुर्धर्मो दृष्टान्तो वा स्यात्, तदैकसिद्धान्तप्रसिङ्घविशेषणविशिष्टो धर्मों विवादास्पदीभूतत्वादपरस्यासिद्ध इति विशिष्टधर्मिणोऽसिद्धेराश्रयासिद्धो हेतुः स्यात्। तथा स्वरूपासिद्धौ दृष्टान्तधर्मिणश्चासिविरिति सर्वथैव धूमसत्वादिभ्यो दहनानित्यतादिप्रतीतिवैकल्यात्साध्यसाधनव्यवहारोच्छेदः स्यात्। अविज्ञानादिरूपपरावृत्तज्ञानमात्रादेः कस्यचित् सिद्धत्वादिति यत्किञ्चिदेतत् । स्यादेतत् । यो हि प्रतिभासमानं धर्मिणमाश्रित्य समारोपिताकारनिषेधनाय साधनं प्रयुक्त, तस्याश्रयासिद्धतादयो दोषा नावतरन्ति । त्वया तु प्रतिभासमान एव धौ निषिध्यते। तत्कथमाश्रयासिद्धतादयस्ते नावतरन्तीति । नैवं तथा हि परमार्थत इति विशेषणात्, प्रतिभासमाने धर्मिणि समारोपितभाविकस्वभावनिषेधः साध्यते न तु धर्मस्वरूपनिषेध इति समानम्। अथ मतम्। पारमार्थिकश्चेत् स्वभावो निषिवः किमपरमवशिष्यते, तस्य धर्मिणो रूपं यत् प्रतिभासेतेति। तदप्यसत्। नहि पारमार्थिकस्वभावत्वेन प्रतिभासो व्याप्तो येन तन्त्रिहत्तौ निवर्तेत। अलोकस्यापि दिचन्द्रकेशोण्डकादेर्भासनात् । न चैतच्छक्यते वक्तुं यद्यपि विचन्द्रादयो