________________
१८८
षोडशपरिवर्तः।
व्यवहारायोग्यादगृहीतकल्पैवेति नोपलब्धिलक्षणप्राप्तत्वमस्याः, ततो नानुमानबाधा। परमार्थत इति विशेषणाच भावप्रतीतेरनपहूवेन प्रतीतिबाधा नास्त्येवेति यत्किञ्चिदेतत् । निबर्बोजभ्रान्तरयोगात् कथं तया समारोपित आकार इत्यपि न वक्तव्यम् । यतः सत्येन सहालौकायाः भ्रान्तेः कः सम्बन्धः। न तावत् तत्स्वभावता सत्यालौकयोविरोधात्, नापि तदत्पत्तिरलौकस्याकार्यत्वात्। अतः सांतमेव कारणं पूर्वमुपादानमस्या न विरुध्यते। तस्यापि कारणस्यापरं सांतमेव पूर्व कारणम् । एवंविधहेतुपरम्यरायाश्चानादित्वान्न कदाचिन्निरुपादाना भ्रान्तिः। कथं प्रतिनियम इति चेत् । उच्यते। तात्त्विकभावस्वरूपवत् सांतस्याप्ययमेव स्वभावोऽपरसांतकारणाधीनो यत्पतिनियतसांवतकार्यकारणं नाम। कथं तर्हि सांरतमिति चेत्। अर्थक्रियासमर्थमेव हि वस्तुविचारविमर्दाक्षमत्वात् मांतमित्युच्यते। तथा हि तथ्यातथ्याभ्यां सर्व एव राशिाप्तस्तयोरन्योन्यपरिहारस्थितलक्षणत्वात्। तथ्यरूपतायाञ्च निषिड्वायां सामर्थ्यादितरवावस्थानमेषामापतितम्। अतः स्वयमेवेदं रूपं सर्वभावैः स्वीकृतमित्यदोषः। ननु हेतुमन्तरेणेष्टार्थासिद्धेः सर्वधर्मनैःस्वाभाव्यप्रसाधनाय हेतोः परिग्रहं कुर्वता तस्य सत्ताभ्युपगता सर्वधर्मनैःस्वाभाव्यप्रतिज्ञया चासत्तेति परस्परविरोधात् स्वमातवन्ध्यात्वप्रतिज्ञावत् स्ववचनविरोधः। यतो न हेतोस्तत एव निःस्वभावता सिध्यति, स्वात्मनि कारिचविरोधात् । नाप्यन्यतोऽनवस्थाप्रसङ्गादिति चेत् । न । निःस्वभावताऽपि च तत एवेत्यादिनोतोत्तरत्वात्। एवं निःस्वभावत्वेऽपि