________________
अभिसमयालङ्कारालोकः ।
३८७
ऽनवस्थाप्रसङ्गात्। अथ तामेकां बुद्धिं मुक्ता व्यवस्थाप्यते । न तर्हि सर्वविषयनैरात्म्यं प्रतिपादितं भवतीति । साध्वेतत् किन्तु सकलप्रपञ्चपरिवर्जितपरमार्थस्यानुकूलत्वाद्यथोक्तबुद्धेः परमार्थत्वं निःस्वभावतापि च तत एव, न च स्वात्मनि वृत्तिविरोधः, सामान्यरूपेण सर्वधर्माणां निःस्वभावताव्यवस्थापनात् । तच च सामान्यलक्षणे तद्दुद्धिस्वरूपस्यान्तर्गतत्वाद्यथा सर्वधर्मेषु सत्त्वादिभ्यो हेतुभ्यो विनाशित्वप्रत्ययो भवन्नात्मानं विरहय भवतीत्यचोद्यम् । ननु समारोपिततात्त्विकोत्पत्त्याद्याकाररहिततयाऽविचारकमनोहरो भावस्वभाव एव निःस्वभावताशब्देनोच्यते । तस्य च भावस्वभावस्य प्रत्यक्षत्वात्तत्स्वभावभूताऽपि निःस्वभावता प्रत्यक्षैव घटविविक्तभूतल इवोपलब्धे तदात्मभूतो घटविवेकः । अन्यथा भिन्नयोगक्षेमत्वादव्यतिरेकताऽवहौयते । ततश्च भावो निःस्वभावो न स्यादसम्बन्धान्निःस्वभावतायाः । न च तदुत्पत्तिलक्षणः सम्बन्धोऽवस्तुत्वेनाकार्यत्वात्तस्याः, तस्माद्दालैः सा न प्रत्य - तोऽवसीयत इति प्रत्यक्षबाधा । तथोपलब्धिलक्षणप्राप्तानुपलब्ध्या घटवदभावव्यवहारयोग्यत्वान्नास्त्येव निःस्वभावतेत्यनुमानबाधा । शशिन्यचन्द्रत्ववदागोपालजनस्य निःस्वभावताप्रतौतिवैकल्यात्प्रतौतिबाधापि दुर्निवारैवेति चेत् । तदसत् । तथा हि समारोपिताकार विविक्तता भावानां निःस्वभावतोच्यते । सा च भावस्वभावग्रहणेन गृहीताऽपि क्षणिकत्ववान्त्या समारोपिततत्त्वोत्पत्त्याद्याकारतिर - स्कृतरूपत्वान्न बालैर्निश्चीयते । अतो निश्चयानुपपत्तेः प्रत्यक्षताया अभावान्न प्रत्यक्षबाधा । तथा गृहीताऽपि