________________
३८६
षोडशपरिवर्तः।
हेतुर्यस्मादेकानेकयोः स्वभावप्रभेदरूपत्वात्, तविपर्यययोरपि साध्यसाधनयोरभेद एव। ततश्च यदि साध्यमसिद्धं हेतुरपि तदभिन्नस्वभावत्वादसिद्धः । अथ हेतुः सिद्धस्तदा निःभावत्वमपि भावानां सिद्धम् । न ह्येकानेकत्वविरहिणि शशविषाणादौ कश्चिद्भावस्वभावरूपतामभ्युपैतौति चेत् । तदसत्। तथा हि हेतुस्तावद्यथा सिद्धस्तथा विस्तरेण प्रतिपादितम्। तस्मिन् सिद्धेऽपि यदि नाम विधिरूपतया साध्यते नैःस्वाभाव्यं, तथापि वस्त्वभिनिवेशस्य दस्त्यजतया तत्त्वतः समस्तवस्तुव्यापिनैःस्वाभाव्ये निश्चयाद्यनुत्पादनाद्यामूढं प्रति सर्वभावानां निःस्वभावताव्यवहारयोग्यताप्रसाधनान्न प्रतिज्ञाथैकदेशता हेतोर्यथोपलब्धिलक्षणप्राप्तानुपलम्भेन नास्तित्वस्येत्यचोद्यम् । अथ मूढं प्रति नैःस्वाभाव्यमेव तावत्साधयितव्यं व्यवहारार्थमित्यभिनिविश्यते। तत्राप्यच्यते। यदा त्वेकानेकत्वयोः स्वभावव्यापकयोर्निरत्या वृक्षनिवृत्त्या शिंशपानिवृत्तिवद्भाविको स्वभावनिवृत्तिः साध्यते। तदा कुतः प्रतिज्ञार्थंकदेशता हेतोः। न हि व्याप्यव्यापकनित्तिवचनयोभिन्नव्यवच्छेदरूपयोः पर्यायत्वं, न चापर्यायरूपस्य प्रतिज्ञार्थंकदेशत्वमिति यत्किञ्चिदेतत् । ननु परमार्थत इति विशेषणमनर्थकम् । तथा ह्यविसंवादको न्यायः परमार्थ इति परमार्थशब्देन विरूपलिङ्गजनिता बुद्धिरभिधीयते । तदा तस्या अपि संवृतिरूपत्वात् कथं परमार्थत्वम् । यदि च तदशाद्भावानां निःस्वभावत्वं व्यवस्थाप्यते, तदा तस्याश्च बुद्धेः कुतोऽवस्थापनौयम् । न तत एव स्थापयितुं युक्त, स्वात्मनि वृत्तिविरोधात् । नापि प्रमाणान्तरतो