________________
अभिसमयालङ्कारालोकः ।
३८५
धर्मग्रहणात्कुतोऽनवस्था । सपक्षे भावान्न विरुङ्घः । तथा हि यदि यथोक्तहेतुः साध्यविपर्ययसाधनात्पारमार्थिकस्वभावे वर्तते, तदा तादात्म्यतदुत्पत्तिभ्यां तत्र प्रतिबडोऽन्यच विचारविमर्दासहिष्णुत्वेन तात्त्विकरूपविरहिणि मायादिरूपें कथं वर्तितुमुत्सहेत । भावधर्मत्वहानिप्रसङ्गादिति कथं प्रसिद्धदृष्टान्तं प्रति विरुद्धता हेतोः । अथ मतम् । मां प्रति दृष्टान्त एवोभयधर्मानुगतो न सिद्धो विज्ञानरूपेण मायादौनां वस्तुसत्त्वेनाभ्युपगमादतोऽनैकान्तिकता हेतोरिति । तदसत् । तथा हि विज्ञानानां सर्वेषामेव वस्तुत्वेनाभिमतानां यथोदितानुमानविधिभिनैः स्वाभाव्यं प्रतिपादितम् । ततो न स्वेच्छाबलेन वस्तूनां तथा भावो लक्ष्यते, येन प्रमाणबाधितस्यापि मायादेर्विज्ञानरूपेण सिद्धत्वादसिद्धो दृष्टान्तः स्यादिति न किश्विदेतत् । स्यादेतत् । पक्षपक्षयोः सत्त्वे सिद्धेऽपि कथं विपक्षाद्यावृत्तिर्निश्चीयते हेतोर्येन सन्धिग्धव्यतिरेकदोषदुष्टता न भवतौति । उच्यते। यद्रूपव्यवच्छेदनान्तरौयकपरिच्छेदं हि यत्तत्तत्परिहारस्थितलक्षणम् । तद्यथा भावोऽभावव्यवच्छेदनान्तरीयकपरिच्छेदः । परस्पररूपव्यवच्छेदनान्तरौयकपरिच्छेदे चैकत्वानेकत्वे तस्मात्परस्पर परिहारस्थितलक्षणे इति । यौ च परस्परपरिहारस्थितलक्षणौ तावेकविधानस्यापरप्रतिषेधनान्तरीयकत्वाद्राश्यन्तराभावं गमयतः । तद्यथा भावाभावौ । त अन्योन्यपरिहारस्थितलक्षणे चैकत्वानेकत्वे तस्माद्राश्यन्तराभावादेकत्वानेकत्वाभ्यां स्वभावः क्रोडौकृत इति साध्यविपर्यये हेतोरस्येव व्यतिरेक इति कुतो यथोक्तदोषावकाशः। ननु चात्र प्रतिज्ञार्थैकदेशत्वादसिडो
49