________________
३८४
षोडशपरिवर्तः ।
भ्रान्तिविगमादित्यपि न वक्तव्यम् । यदि हि विशुद्धावस्थायां सर्वेषामाकाराणां निवृत्तिः सम्भवेत्तदा संभाव्यते एवैतत् । यावता भ्रान्तिनिवृत्तावपि नाकारणां निवृत्तिः मम्भवति, तत्र तेषां यथोक्तन्यायेन प्रतिबन्धाभावात्। न चाप्रतिबन्धे सत्येकनिवृत्तावपरस्य नियमेन नित्तिर्गवावादिवदतिप्रसङ्गात्। अथापि स्यात्कस्यचिन्निसर्गसिद्धमेवाद्दयज्ञानं प्रपञ्चापगतमेकं भविष्यतीति तदयुक्तम् । निसर्गसिद्धत्वे हि प्रतिनियताश्रयपरिग्रहेणानायत्तत्वान्न तथाविधा सत्ता कस्यचिहिरमेत् । ततश्च प्रतीत्यादिविरोधी भवेत् । स्यादेतत् । स तादृशो हेतुधर्मो येन पूर्वपूर्वप्रतिपक्षक्षणबलेनोत्पादात् प्रतिनियतकारणायत्तस्वभावतया कस्यचिदेव भविष्यतीति । तदेतन्नितरामेव न राजते । यथोदितविधिभिः सर्वस्य नौरूपताऽपादनेन परमार्थतः कार्यकारणभावस्यानुपपत्तेरिति यत्किंचिदेतत् । अतो यदा विचार्यमाणो भावानां न कश्चिदंशरूपोऽपि स्वभाव एको भागरहिततया सिद्धस्तदानेकः कथं सेत्स्यति तत्समुदयात्मकत्वादनेकत्वस्येति, नासिद्धो हेतुः। ननु न सर्वस्य प्रतिभासमानस्यैकानेकस्वभावरहितत्वेन निःस्वभावत्वं प्रत्यक्षतोऽवभासते भावविषयत्वादस्य नाप्यनुमानतो व्याप्ताहकस्य प्रत्यक्षस्याभावात्। अनुमानेन च ग्रहणेऽनवस्थानादप्रतिपत्तेः कथं सिद्धो हेतुरिति चेत्। न। तथा हि समुदितानुमानविधिभिनिःस्वभावत्वमेकानेकस्वभावरहितत्वेन व्याप्तमिति प्रतिपादितम् । तेषाञ्च मध्ये कस्यचिदनुमानस्य प्रत्यक्षेण व्याप्तिः, कस्यचित् प्रत्यक्षगृहीतव्याप्तिकेनानुमानेन गृह्यत इति यथास्वं प्रमाणेन निश्चितपक्ष