________________
अभिसमयालशारालोकः ।
१८३
स्यात् । नहि ताप्यव्यतिरेकेणान्यो निरीहस्य ज्ञानस्यालम्बनग्रहणप्रकारोऽस्ति येन ताद्रप्यव्यतिरेकेणाकारो व्यवस्थाप्यते, अतिप्रसङ्गात्। अपि तु ताद्रूप्योत्पत्त्यैव ज्ञानस्य सव्यापारता प्रतीयते स एव तस्यालम्बनग्रहणप्रकार उच्यते। तत्र चोक्तो दोषः। नास्येव सर्वथा नौलादिरिति चेत् । नैवम् । तथा हि यदि नौलादि नान्तर्नापि बहिरस्ति तत्कथमिदमविकल्पे चेतसि स्फुटतरमनुभूयत इति वक्तव्यम् । न चैतच्छक्यते वक्तुं नैव प्रतिभासत इति । सर्वेषामनुभवसिद्धत्वात्तत्प्रतिभासस्य । न चापि स्फुटावभासिनो विकल्पविषयता युक्ता। येनोच्यते मुढात्मना तथावसौयत इति। अथैवमप्यनुमन्यते विकल्येनावसीयत इति तदसत्। यस्माद्यदि निराकारमेव सर्व ज्ञानमनुभूतं तदा तत्पृष्ठभाविनापि विकल्पेन प्रतिनियतस्य नौलादेराकारस्याध्यवसायोऽप्ययुक्त एव प्रतिबन्धाभावात्। भ्रान्तेरयमेव स्वभाव इति चेत्, उक्तमत्र परतन्त्रत्वप्रसङ्गात् कथं भ्रान्तावस्य प्रतिबन्ध इति । तस्मात्प्रतिबन्धाभावादिकल्पविषयतयापि नौलादेरसतः संवेदनानुपपत्तेरयुक्तमेतदिति । यद्येवमस्तु तीपरिशुद्धावस्थायां चित्रावभासमलोकमेव ज्ञानं, परिशुद्धावस्थायां भ्रान्तिविगमादद्दयरूपमेवैकस्वभावं भविष्यतीति। उच्यते। यद्यशुद्धावस्थायां सर्वमलौकमेव ज्ञानं, तदा शुद्धावस्थायां तत् सत्यरूपं कुतो जातमिति वक्तव्यम्। न चालौकात्सत्यरूपस्योत्पत्तिर्युक्ता, तस्यासमर्थत्वात्। सामर्थ्य वा तदलोकं कथं भवेत् । तथाविधस्याप्यलोकत्वेऽन्यस्यापि सत्यत्वं कथं भवेत् । अतो निर्हेतुकमेव तत्स्यात् । तच्चायुक्तं नित्यं सत्त्वादिप्रसङ्गात् ।