________________
षोडशपरिवर्तः ।
३८२
रहित एव ससम्प्रयोगविज्ञानस्कन्धस्य स्वभावो निश्चितः । तथापि चित्रतामेवाभिधावति । तथा हि भ्रान्तिवासना विद्यत इति भवताऽभ्युपगम्यते । अथ नेति विकल्पद्दयम् । यद्याद्यस्तदा वितथाकाराभिनिवेशवासनैवाविद्या सा च वासना शक्तिरुच्यते । शक्तिश्च कारणज्ञानात्मभूतैवेति । तेन पूर्वपूर्वस्मात् कारणभूतादविद्यात्मनो ज्ञानादुत्तरोत्तरस्य कार्यस्य वितथाकाराभिनिवेशिन उत्पत्तेरविद्यावशात्तथाख्यातियुक्तेति बलाञ्चिचत्वमायातम् । न च समनन्तरप्रत्ययान्नियम इति वक्तव्यम् । यतो यथोक्तमेव ज्ञानं समनन्तरप्रत्यय इति यत्किञ्चिदेतत् । अथ तच वासनात्मिकाः शक्तयो भिन्ना इति चेत् । न । भाविकानेकशक्त्यव्यतिरेकात् शक्तिस्वरूपवद्युगपदनेकत्वं विज्ञानस्यासज्यते । तच चोक्तो दोषः । तथैकज्ञानाव्यतिरेकाद्या शक्तीनामेकत्वं विज्ञानस्वरूपं दुर्निवारमिति कथं समनन्तरप्रत्ययभेदः । अथ नेति द्वितीयः पक्षा मतस्तदा मुक्ताः स्युरयत्नेन सर्वदेहिन इत्यादिप्रसङ्गोऽनिवार्यः । अथ सर्वमेव पृथग्जनस्य ज्ञानमनापन्ननौलाद्याकारोपरागं प्रवर्तते तचैकत्वहानिप्रसङ्गो न भविष्यति । अचित्ररूपत्वात् नौलादिसंवेदनरूपतात्तया तस्य व्यवस्थाप्यते सा तत्संवेदनरूपत्वान्न तु नौलादिरूपापत्तेः। तथा ह्यालम्बनग्रहणप्रकार एवाकारो न तु ताद्रूप्यम् । यत्तु नौलादि बहिरिव प्रतिभासमानमालक्ष्यते तन्न ज्ञानाकारतया, अपि तु ज्ञानं नौलादिसंवेदनमनुभवन् प्रतिपत्ता मोहात्तथा बहीरूपेण नीलादिकमध्यवस्यतौति । एतदपि मिथ्या । तथा हि यदि नौलादिना सहगतस्य कश्चित् प्रतिबन्धो नास्ति तदा कथं नौलादिसंवेदनं