________________
व्यभिसमयालङ्कारालोकः ।
३८१
गम्यते तदोपलब्धिलक्षणप्राप्तत्वेनानाकारमेव ज्ञानं सदा सर्वप्राणभृद्भिः संवेद्यत इति प्राप्तम् । स्यादेतत् । संवेद्यत एव किन्त्वनुभूयमानाकारोपजनितविभ्रमबलेनानुपलब्धिलक्षणप्राप्तत्वादवाग्दृशामतोऽनुभूतनिश्चितोपलम्भवैकल्यान्न तस्योपलम्भोऽस्ति क्षणैकत्ववदिति तदसत् । तथा हि यद्यन्तर्बहिर्वाकाराः सम्भवेयुस्तदा तेषां संवेदनोपजनितविभ्रमबलेन संविद्यमानमपि ज्ञानं न निश्चिन्वन्तौति स्यात् । यदा तु नान्तर्न बहिस्ते सन्ति तदा कस्यानुभवेन विप्रलभ्येरन् येन संवेदयन्तोऽप्यद्दयं न विनिश्चिन्वन्तौति स्यात् । अथ मतम् । भ्रान्तेरयमेव स्वभावो यदलौकाकारसन्दर्शनम्। तेनाऽसतोऽप्याकारस्य भ्रान्तिवशात् संवेदनं भविष्यतीति तदप्यसम्यक् । तथा हि भ्रान्तिशब्देन विभ्रमोत्पत्तिवासनाहेतुभूतज्ञानावस्था वाऽभिधौयेत, यद्दा तथाविधवासनाप्रभवं भ्रान्तमेव ज्ञानं कार्यरूपम् । तचाद्ये पक्षे तत्र हेतावाकाराणामप्रतिबद्धत्वात्तद्दलात्तेषां संवेदनमयुक्तमतिप्रसङ्गात्। न चापि तदुत्पत्तिलक्षणः प्रतिबन्धोऽस्त्येवेति युक्तं पूर्ववत्परतन्त्रत्वप्रसङ्गात् । अथापि द्वितीयः पक्षस्तचापि प्रतिबन्धो भवन्नाकाराणां तादात्म्यलक्षणो भवेन्न तदुत्पत्तिलक्षणः तत्समानकालमनुभूयमानत्वात् । समानकालयोश्च हेतुफलत्वायोगात् । ततश्च भ्रान्तिवत्तदव्यतिरेकात्परतन्त्रत्वप्रसङ्गो दुर्निवार इति यत्किञ्चिदेतत् । स्यादेतत् । भ्रान्तग्राह्यग्राहकाकाराभावात् सुप्ताद्यवस्थायां स्वसंवित्ति रेकरूपा सत्या भविष्यतीति । तदसत् । मनोविज्ञानस्य धर्मधात्वालम्बनत्वेऽपि केवलचैतसिकधर्माग्रहणात्कलापपरिच्छेदेन चित्ररूपत्वात् । अथ ग्राह्यग्राहकभाव
-