________________
३८०
षोडशपरिवर्तः । मलौकत्वेनार्थक्रियासामर्थ्यविरहात् । न च तादात्म्यतदत्पत्तिभ्यामन्यः सम्बन्धोऽस्ति । ततश्च यस्य येन सह प्रतिबन्धो नास्ति न तत्तस्मिन् संवेद्यमाने नियमेन संवेद्यते, यथा ज्ञानात्मनि संवेद्यमाने बन्ध्यासुतः। नास्ति च तादाम्यतदत्पत्तिलक्षणो विविधोऽपि प्रतिबन्धो ज्ञानेन सहाभिमतानामाकाराणामिति व्यापकानुपलब्धिः। सम्बन्धाभावस्य प्रतिपादितत्वान्नासिद्धता। सपक्षे भावान्न विरुइता। सर्वसंवेदनप्रसङ्गान्नानैकान्तिकता च हेतोः। ततश्च योऽयमाकारो ज्ञानसमानकालभावित्वेन भवता परिकल्पितस्तस्याहेतुकत्वे कथमपेक्षाऽभावात् कादाचित्कत्वमित्यभिधानौयमत्र कारणम् । योऽपि मन्यतेऽलोकत्वेऽपि यथा भवतां संस्त्या ज्ञानज्ञेययोः प्रतिभासनं तथास्माकमपि निराकारे तात्त्विके ज्ञाने तदप्रतिबद्धैवाऽविद्यालोकापि सती संवृत्त्याऽन्यत्वेऽपि प्रतिभासत इति। तदप्यतेनैव प्रत्युक्तम् । अस्माकन्तु संहत्या ज्ञानमेव ज्ञेयरूपमिति सम्बन्धस्याभ्युपगतत्वात्तयोः प्रतिभासनमविरुद्धम् । अथ माभूदयं दोष इति हेतुमत्वमभ्युपगम्यते तदा प्रतीत्यसमुत्पन्नत्वाबाह्यग्राहकाकारयोः कल्पितत्वाभावात् परतन्त्रतास्वभावः प्रसज्यते । यतो न प्रतीत्यसमुत्पत्तेरन्यत्यारतन्यम् । यद्यप्येवं तथापि पारमार्थिको सत्ता कुतो लभ्यत इति चेत्। उच्यते। तथा हि विज्ञानस्यापि न प्रत्ययोद्भवात् स्वभावादन्या सत्तेत्यतः प्रतीत्योत्पत्त्यविनाभाविनी पारमार्थिको सत्ता दर्निवारा। ततश्च पौर्वापर्येण भावाद्यौगपद्येनासंवेदनप्रसङ्गेऽप्युपगताकारालोकत्वहानिः स्यात् । अथ यथोक्तोऽप्याकारो नाभ्युप