________________
अभिसमयालकारालोकः।
३७६
माध्यते न चाहानैकान्तिकता। तथा हि विविधं संवेदनं मुख्यं गौणञ्च । तत्र मुख्यं यदजडरूपम् । स च ज्ञानस्यैवामाधारणः स्वात्मभूतो धर्मः कथमसत आकारस्य स्यात् । तथा हि यदज्ञानरूपं न तस्य मुख्यं संवेदनमस्ति। यथाकाशनलिनस्य। अज्ञानरूपाश्चासत्त्वेनोपगता नौलादय आकारा इति व्यापकविरुद्धोपलब्धिः। गौणमपि न सम्भवति। यतः स्वाकारनिर्भासज्ञानोत्पादनमेव गौणं संवेदनमुच्यते। तच्चासतः सर्वसामर्थ्यशून्यस्य तुरगविषाणस्येवायुक्तं । सर्वसामर्थविवेकलक्षणत्वादसत्त्वस्य । तथा हि यदसमर्थं न तस्य गौणं संवेदनं यथा तुरगविषाणस्य । असमर्थाश्चासत्त्वेनाभिमता नौलादय आकारा इति व्यापकविरुद्धोपलब्धिः। आकाराणामलौकत्वान्नासिद्धो हेतुः। सपक्षे भावान्न विरुद्धः। तदेवं मुख्योपचरिताभ्यामन्योन्यपरिहारस्थितलक्षणाभ्यां संवेदनस्य व्याप्तत्वात् , तस्य च व्यापकस्य निवृत्तेः संवेदनस्यापि तद्याप्तस्य निवृत्तिरेवेति नासत्त्वादित्यस्य हेतोः संवेदनेऽनवकाशो नास्तौति नानैकान्तिकत्वम् । ननु मरौच्यादौ जलाद्याकारस्यासतोऽपि संवेदनादनैकान्तिकत्वमेवेति चेत्। न। तत्रापि हि जलाद्याकारो यदि नान्तर्नापि बहिस्तदा तस्यात्यन्तासतः कथं संवेदनं स्यादिति तुल्य एव पर्यनुयोगः। प्रतिबन्धबलेनानुभूयन्त इत्यपि न वक्तव्यम्। तथा हि न ज्ञानस्वभावता, आकाराणां ज्ञानवत् सत्त्वप्रसङ्गात् । अथाकारस्वभावता ज्ञानस्यानुमन्यते तदाकारवत् ज्ञानस्यासत्त्वग्रसङ्गः । न च ज्ञानादाकाराणामुत्पत्तिनौरूपस्य जन्यरूपासम्भवात्। नाप्याकारेभ्यो ज्ञानस्याकाराणा