________________
३०८
षोडशपरिवर्तः ।
अभेदस्यास्मादिदमभिन्नमित्येवं रूपस्याग्रहात् द्वैतं किं न कल्प्यते । अथ भेदाभेदविनिर्मुक्तं वस्तुमात्रं गृह्यते । कथं तर्हि नौला देश्चित्रस्य च प्रतिभासः । चित्रश्चेत्प्रतिभास इष्यते स एव लोके भेदप्रतिभास उच्यत इति कथं भेदापलापः। अथ मतम् । यदि सत्यरूपा स्वामी स्युराकारास्तदा सर्वोऽयं विरोधः । यावता शुद्धस्फटिकोपलसंकाशमेव तद्विज्ञानमसंप्राप्तनौलाद्याकारभेदं तस्मिन्नेवंविधेऽप्यनादिकालिकविपर्यासवासनापरिपाकप्रभावात्
मृच्छकलादिषु
मन्त्राद्युपलुतलेाचनपुरुषप्रतिभासापन्न
करितुरगादीनामिवाकाराणामवभासनमिति । परमार्थत एकरूपस्यैकज्ञानस्याभ्युपगमेऽलौकत्वान्न विरोधो यतो भवता दोषाभिधानेनालीकत्वमेवाकाराणां प्रतिपाद्यते । तच्चास्माभिरभ्युपगतमिति । तदसत् । तथा हि यदतिस्फुटमाबालप्रतौतनौलाद्याकाररूपमनुभूयते तदलौकमननुभूयमानं तु स्फुटप्रतिभास्याकारव्यतिरिक्तमद्दयं ज्ञानं यत्तत्सत्यमिति किमतः परमिह सुभाषितमस्ति । किमित्यतिपरिस्फुटसंवेदनानुपपत्तिरसत्त्वेऽपि तत्त्वत इति चेत । उच्यते । यद्यचासंविद्यमानरूपं न तत्तत्र संवेद्यते । यथा दुःखे सुखादिरूपमसंविद्यमानाश्चाकारा नौलादयो विज्ञान इति व्यापकविरुद्धोपलब्धिः । अलीकत्वेनाका - राणां निश्चितत्वान्नासिद्धिता, सपक्षे भावान्न विरुद्धता । तत्र यदि परमार्थतोऽसंवेदनप्रसङ्गः साध्यते तदा सिद्धसाधनम् । सामान्येन । तदा साध्यधर्मविपर्यये साधनधर्मस्य वाचकप्रमाणाभावात्कथं सन्दिग्धविपक्षव्यावृत्तिकत्वं हेतोर्न भवेदित्यपि न वक्तव्यम् । यतः सामान्येन नैवाच