________________
अभिसमयालयारालोकः ।
३७७
सन्तानवर्तिनः प्रत्ययाः। चित्रं चेदं विज्ञानमिति विरुडोपलब्धिः। चिचत्वेनोपलम्मान्नासिद्धो हेतुः, सपक्षे भावान्न विरुद्धः। कथं पुनश्चिचैकत्वयोर्विरोधो येन चिचत्वमेकत्वमपनयेदिति चेत्। उच्यते। न हि नानास्वभावव्यतिरेकेणान्यच्चित्रशब्दाभिधेयमस्ति। नानैकत्वयोरन्योन्यस्वरूपव्यवच्छेदान्तरोयकत्वात् परस्परपरिहारस्थितलक्षणो विरोध इति सिद्धो विरोधः। विरुवयोरप्येकस्वभावत्वे सकलं विश्वमेकं द्रव्यं स्यात्ततश्च सहोत्यादविनाशादिग्रसङ्गो दर्निवारः। अन्यथा नाममात्रमेव स्यादेकमिति । न च नाम्नि विवाद इति नानैकान्तिकता च हेतोः। दृष्टान्तो मेचकमणिप्रतिभासस्तावत् सिद्ध इत्यपि न वक्तव्यम् । तत्राप्येकरूपत्वे नानारूपतयाऽव्याप्तत्वेन नानारूपावभासित्वाद्यनुपपत्तेस्तुल्यपर्यनुयोगत्वात् । अथ स्यात् । प्रतिभासमानस्य नौलादेर्देशकालान्तरस्थात् पदार्थान्न भेदः प्रत्यक्षेण प्रतीयते वयोरप्रतिभासनेनैतस्मादिदं भिन्नमित्यग्रहात्। नापि समानकाल देशस्थात् प्रतिभासमानादस्मादिदं भिन्नमिति प्रत्ययोऽस्ति निर्विकल्पतया प्रत्यक्षेणाग्रहात् । तस्माद्राग्राहकयो ह्याणाञ्च परस्परं भेदाग्रहाच्चित्राद्वयमेवैकरूपं प्रत्यक्षे प्रतिभासत इति। तदप्येतेनैव प्रत्युक्तम् । एकस्य चित्रत्वविरोधात् । अथाभिन्नयोगक्षेमत्वाच्चित्रमप्येकम् । तदयुक्तम् । अन्योन्यव्याहत्तरूपत्वेनास्यैकत्वविरोधात् । न चास्यानेन भिन्नयोगक्षेमत्वं प्रत्यक्षेणावगम्यते, युगपत् प्रतिभासस्याभिन्नयोगक्षेमरूपत्वे स्वरूपान्यत्वस्यापि प्रतिभासनात् । कथन्न भेदप्रतिभासो भवेत् । यदि च भेदस्याग्रहाददैतं कल्प्यते तदा