________________
३७६
षोडशपरिवर्तः ।
माकाराणां सत्यत्वमिच्छता ज्ञानानामदेशानामपि सतां बहूनां तथा देशवितानास्थानेनोत्पादः परिकल्प्यते । अन्यथा हि यद्यनेकविज्ञानोत्पादकल्पनायामपि तथा देशवितानोत्पादप्रतिभासो मिथ्या स्यात्तदाऽनेकविज्ञानोत्पादकल्पना व्यथैव स्यात् । न च देशवितानावस्थितनौलादिप्रतिभासमन्तरेणान्यन्नौलाद्यनुभूयते यत्सत्यं भवेत्। तस्य चालौकत्वे किमन्यत् सत्यं भविष्यतीति यत् किञ्चिदेतत् । ननु तथाप्यणवो मूर्ता विज्ञानं त्वमूर्तं तत्कथं स एवाच दोष इति चेत् । नैष दोषः । तथा हि तदेव नौलादि नैरन्तर्येण भासमानमेकेन परमाण्वात्मकमुपगम्यते। अपरेण संविद्रूपमिति नाममात्रमेव केवलं भिद्यते, नतु देशनैरन्तर्यावस्थानलक्षणस्यार्थस्य भेदः । नाममात्रप्रवृत्तिद्वारकृतं तुल्यदोषतापादनं क्रियते । अपि तु देशनैरन्तर्यावस्थानकृतम् । तच्च नाममाचभेदेऽप्यस्तीति कथं तुल्यदोषता न भवेत् । अथैवमपि ज्ञानज्ञेययोर्वैसादृश्याज्ज्ञेयगतं दूषणं ज्ञानेनानुमन्यते। तदाप्युच्यते। युगपदनेकज्ञानोदये घटपटादिविषयः प्रतीयमानो विकल्पः क्रमभावौ न स्यात् । न चैतच्छक्यते वक्तुं निर्विकल्पकज्ञानान्येव युगपदिति तदनुभवनिश्चयद्वारेण विकल्पानामुत्पत्तेः । ततश्च न हौमाः कल्पनाः स्वयमसंविदितरूपा उत्पद्यन्त इति सकृदनुभवनिश्चयप्रसङ्गात् क्रमभावौ विकल्पोऽनुभूयमानो न स्यादिति प्रत्यक्षविरोधः । अथ मतम् । एकमेव वानज्ञमागृहीतचित्ररूपं मेचकमणिप्रतिभासवदिति
न च
तदसत् । तथा हि यच्चित्रं तदेकं न भवति । यथा नाना