________________
अभिसमयालधारालोकः ।
३७५ विचारैकरम्या इति विकल्पः। यद्याद्यस्तदा भाविकानेकाकाराव्यतिरेकादाकारस्वरूपवदनेकत्वं विज्ञानस्यासज्यत इत्येकता कुतः। अथ सकृदनुभूयमानत्वेन विज्ञानस्यैकत्वं निश्चितम् । तदैकज्ञानाव्यतिरेकादाकाराणामेकत्वं विज्ञानस्वरूपवदुर्निवारम् । भवत्वेवमिति चेत् । नैवम् । तथा हि यद्येक आकारश्चलनादिविशिष्टः प्रतिभासते तदा परिशिष्टा अप्याकाराः पूर्वाकाराव्यतिरिच्यमानमूर्तिस्वभावत्वात्तथाविधा एव स्युरिति वैचियाकारानुभवो विरुध्यते। अतो नानात्वमेकान्तिकमेवाकाराणामित्येकानेकत्वयोः परस्परविरुवधर्माध्यासयोगात् पारमार्थिकमेवाकारविज्ञानयो नात्वं स्थितमित्यभ्युपगताइयनयहानिः। अथ सुखादिवन्नौलादय आकारा अनुभवात्मका एवेत्येकस्य चित्रत्वानभ्युपगमान्न यथोक्तदूषणप्रसङ्ग इति मत्वा समानजातौयान्यपि विज्ञानानि बहूनि विजातीयज्ञानवत् मकृत्पद्यन्त इति वर्ण्यते । तदायमन्यो दोषः । तथा हि यत्तन्मध्याभिमतं विज्ञानं परिहताणप्रख्यमिष्यते । तद्येन स्वभावेनैकस्याभिमुख्यं प्रतिपद्यते किन्तेनैवान्यस्याप्यथान्येनेति विकल्पः । तेनैवेति पक्षे परिवार्यावस्थानाभावेनावशिष्टानां न दिगन्तरावस्थितियथार्था भवेदतश्च पूर्वापरादिदिग्भागेनानुत्यत्तेनौलादिमण्डलसंनिवेशप्रतिभासो न स्यात् । अन्येनेति तु पक्षे स्वभावभेदलक्षणत्वादस्तुभेदस्यत्येकता कुत इति परमाणुविचारभावौ दोषः समापतति । नन्वमूर्तत्वाज्ञानानां न देशकृतं पौर्वापर्यमस्ति तत्कथमणुवन्मध्यवर्तित्वं ज्ञानानां भवेत् । सत्यमेतत् । अयमपरोऽस्य दोषोऽस्तु यहेशवितानप्रतिभासिना