________________
३७४
षोडशपरिवर्तः।
स्परसंश्लेषं मुक्काऽन्या गतिरस्ति। न च शब्दान्तरेणाभिधीयमानः स एवार्थोऽन्यथा भवत्यतिप्रसङ्गात् । अथासंयुक्तः एव परमाणुर्बहुभिस्तु दिक्शब्दवाच्यैः समीपेतरदेशावस्थितैः परमाणभिः परिवृत इति चेन्मतम् । तदयुक्तम् । न झर्वाक्परभागयोरभावे वचनमिदमर्थवत्तायां व्यवतिष्ठते। तदन्यापेक्षयाऽन्यस्य यद्रपमवधार्यते तदसत्तत्र तत्त्वेन पारावारादिभेदवदिति न्यायान्न भूतार्थेन सावयवत्वमिति चेत् । न। पारापारयोरपि बहिरर्थवादिनां व्यपेक्षाभेदेनासाकर्यात् पितापुत्रादिवत् तात्त्विकमेव रूपमित्यभ्युपगन्तव्यम्। यदपेक्षया हि तत्यारं न जातु तदपेक्षया तदपारमिति। अन्यथा पारापारयोरपारमार्थिकत्वे कथं पारावाराभिधानतटस्थितयोरसाङ्कर्येणावस्थानम् । तथा हि पाराभिमतादन्यत्वमेव विवक्षितस्यापारस्यापारत्वमुच्यते । तस्य च कल्पितत्वे तयोरैक्यप्रसङ्गः । तथा च न तदाश्रितानामसङ्कीर्णावस्थितिः स्यात् । न हि कल्पनोपरचितो भेदोऽर्थक्रियाङ्गम् । अथ मंवेदनबलाविषयस्थितेरननुभूयमानत्वेनार्थस्यात्यन्तपरोक्षत्वात्समनन्तरप्रत्ययबलेन प्रतिनियतस्य कार्यस्योदयातद्यतिरेकेण कल्पयितुमशक्यत्वाच्च स्वतःसिद्धरूपमेवाइयज्ञानमेकस्वभावं परमार्थतो ग्राह्यग्राहकभावरहितमहेतुकत्वे नित्यं सत्त्वादिप्रसङ्गान्नित्यत्वेऽर्थक्रियाद्यनुपपत्तेश्च स्वहेतुप्रतिबडोदयमुदयानन्तरापवर्गि केवलमनादिभवभावि भावाभिनिवेशवासनापरिपाकप्रभावादाकारास्तत्र प्रतिभासन्त इति ज्ञानात्मको भावो योगाचारैरभ्युपगम्यते । तचापि किं त्वाकारास्ताविका एव किं वा प्रतिबिम्बादिवद