________________
अभिसमयालङ्कारालोकः ।
३७३
परस्परपरिहारस्थितलक्षणविधिप्रतिषेधायोगात् कथमेकस्वभावता । द्वितीयेऽपि परिवारकपक्षे, यदि नाम समानजातीयैः संस्पर्शो नेष्टस्तथापि छिद्रस्यालाकतमोरूपत्वाद्विजातौयैरालाकतमःपरमाणुभिरभौष्ट एव । न ह्यालोकेनासमाक्रान्तस्य तमोरहितता तमसा वाऽनास्पदौकृतस्यालोकरहितत्वं युक्तिमत् । तयोरन्योन्यविरहितदेशादिमाचप्रतिबद्धोदयत्वात्तथा चानन्तरोपवर्णितो दोषः समुपनिपतति । अथ विजातीयैरपि संस्पर्शो नानुमन्यते, तदा योऽसौ मध्यवर्ती परमाणुर्येनैकेन स्वभावेनैकपरमाखभिमुखावस्थितस्तेनैवान्यपरमाण्वभिमुखो यद्दा ऽन्येनेति विकल्पद्वयम् । तत्र यद्याद्यः पक्षस्तदा यदेकरूपपरमाण्वभिमुखस्वभावं तदेकदेशम् । तद्यथा तस्यैव परमाणोः पूर्वदिगवस्थितपरमाणुः। एकपरमाण्वभिमुखस्वभावाश्र सर्वे परिवारकाः परमाणव इति स्वभावहेतुः । तेनैव स्वभावेनेत्यभ्युपगमान्नासिद्धता सपक्षे सद्भावान्न विरुद्धता । भिन्नदेशावस्थाने तु नाभिमतैकपरमाण्वभिमुखस्वभावा भवेयुस्तस्य परमाणोरपरापरस्वभावाभावात्, असता च स्वभावेनाभिमुख्यायोगादिति न चानैकान्तिकताहेतोः ततश्च परिवार्यावस्थानाभावेन परिवारकाणामणनामेकदेशताप्रसङ्गात्तत्त्वतः प्रचयाभावे तत्साध्यार्थक्रिया वैकल्यादेव तस्य परमाणìर्नैकस्वभावाभ्युपगमो युक्तः । द्वितौये तु पक्षेऽपरापरस्वभावैरपरापरपरमाण्वभिमुखयोगात् स्फुटतर एव सावयवताप्रसङ्गादेकत्वविरहोऽणूनां स्वभावभेदलक्षणत्वाद्दस्तुभेदस्य । तृतौयस्तु नैरन्तर्यपक्षः संयोगपक्षमेवानुपतति तत्पर्यायत्वात् न ह्यन्तरालदेशविरहिणां पर