________________
३७२
षोडशपरिवर्तः।
त्वात्तथतायाः कुतः सर्वधर्माभिन्नस्वभावत्वमिति कस्यचिदाशङ्कायामाह। यैव चेत्यादि। इयं सा तथतेति (p. 309, 2)। सर्वदैकस्वभावत्वाद्युक्तेयं सा तथता यया सर्वप्रकारागन्तुकमलापगमेनाभिसम्बोधात्। य एकानेकस्वभावा न भवन्ति, न तेषां परमार्थतः स्वभावोऽस्ति । यथा मायादिरूपस्य न भवन्ति चैकानेकस्वभावाः स्वपरोदिता भावा इति व्यापकानुपलब्या। मायोपमस्तथागत इत्यर्थः । नासिद्धो हेतुर्यस्मात्प्रेक्षावतां प्रत्तेः प्रयोजनवत्तया व्याप्तत्वादर्थक्रियायोग्यपदार्थविषयो विचारोऽन्यथार्थक्रियार्थिनां पुंसामसदर्थपदार्थविचारैः किं प्रयोजनमित्यर्थक्रियाकारी भावोऽभ्युपगन्तव्यः। स चान्योन्यव्यवच्छेदरूपत्वाज्ञेयरूपो वा भवेज्ञानरूपो वेति विकल्पः। तत्र यद्याद्यः पक्षस्तदा परस्परसंयुक्तस्वभावो वा भवेत् , बहुभिर्वा समानजातीयैः परमाणुभिः परस्परसामर्थ्यविधृतरसमाश्लिष्टस्वरूपैः सान्तरैः परिवृतो यहा निरन्तरैरिति पक्षत्रयम् । तत्र प्रथमे पक्षे यद्येकेन सहैकदेशेन संयोगोऽपरस्य तदा सावयवत्वप्रसङ्गादेकत्वहानिरपरापरस्वभावैरण्वन्तरसमाश्लेषात् । सर्वात्मना संयोगपक्षेऽपि यदा पूर्वोऽणुरपराणुना सह सर्वात्मना संयुज्यते, तदाऽपरोऽपि पूर्वेणेत्यतः संयोगस्योभयपदार्थाधीनत्वेन परस्परस्वभावानुप्रवेशान्न कस्यचिदणोरेकस्वभावता। तथा हि पूर्वाणुरपरेण सर्वात्मना संयुज्यत इति। स्वस्वभावं परित्यज्य सर्वथाऽपररूपापत्तेस्तस्य च संयुज्यमानस्यासत्त्वम् । तथाऽपरोऽपि पूर्वेण संयुज्यत इति स्वस्वभावं विहाय सर्वथा पूर्वरूपभवनात्तस्य संयोगाश्रयस्यासत्त्वम् । ततश्चैकस्यैकदा