________________
बभिसमयालशारालोकः ।
२२१
तदात्मिका एवं सुभूतितथतापौति । न सा कस्यचिन्न तथतेति सर्वस्य सा तथतेत्यर्थः। तदेवाह । सैव सेत्यादिना। यैव सा तथता सुभूतेः सैव सर्वधर्मतथतेति योज्यम्। अनन्यतथतानुगमेनेति । आत्मस्वभावतथतानुकरेण तां तथतां सर्वधर्मवर्तिनौमुपगतः। तथतास्वभावत्वेन कथमनुगम इति चेत् आह । न चात्रेत्यादि। मंस्त्यैवं व्यपदेशः कृतः। परमार्थतस्तु नैवात्र मायोपमत्वे कश्चिद्भावः क्वचिदनुगतिं सदृशतां प्राप्तः। चैयविकसर्वधर्माणां तथता कालिको, तथागततथता तु प्रकृतिप्रभास्वरत्वेनोत्पादविरहान्न तथाविधा। तत्कथमनयोरेकत्वमिति चेदाह । यथा तथागततथतेत्यादि। तत्रोत्यादपूर्वकविनाशाभावान्नातौता, भविष्यदत्यादवियोगान्नानागता, लब्धसत्ताकत्वानुपपत्तेर्न प्रत्युत्पन्ना। एवं मर्वधर्मतथतेति। मायोपमत्वप्रसाधकप्रमाणस्य सर्वत्र तुल्यत्वादिति भावः। भवतु वा सांस्तभावोपाधिभेदेन तत्तथतायास्त्रैकालिको व्यपदेशः, तथापि तथागतसर्वधर्मतथतयोरभेद एवेत्याह। तथागततथतयापौत्यादि। न केवलमात्मतथतया किन्तर्हि तथागततथतयापि । यस्मात्तथतामनुप्राप्तः सन् सुभूतिस्तयैव तथागततयतया ऽतीतादितथतामनुगतः, अतीतादितथतया च तथागततथतामनुगतो भवति, तस्मान्नास्ति विमुक्त नाकरणमिति भावः। अतीतादिप्रत्येकसमुदायभेदेन च हारकचतुष्टयमवगन्तव्यम् । उपसंहरन्नाह। इति हि सुभूतितथतेत्यादि। बोधिसत्त्वतथागतावस्थयोरेव तावद्भिन्नरूप