________________
३७०
षोडशपरिवर्तः। च तथागततथतेत्यादि। एकैवैषेत्यभिन्ना यस्माद्भेदककर्मकर्तक्रियाऽनुपलम्भादद्दयाऽवैधौकाराऽदयतथतेत्यर्थभेदो वाच्यः। सर्वथाऽऽधारत्वविरहान्न कचित् । हेतोरभावान्न कुतश्चित् । सम्बन्धिनोऽसत्त्वान्न कस्यचित् । सम्बन्धिभावादौ तु वस्तुत्वापत्तेस्तथतैव न स्यादित्याह। यतः सेत्यादि। एवं हि सुभूतिरिति । तथागतसर्वधर्मतथतयोरेवमेकस्वभावत्वेन तथागततथतया सङ्ग्रहौतत्वानिर्विकारादिस्वभावा सुभूतितथता। तस्मादकृततथतयाऽनुजात इत्यर्थः। तथतारूपेण सर्वेषामनुजातत्वे सुभूतेः कोऽतिशय इति चेत् । सत्यम् । किन्तु यदेव विवादास्पदीभूतं तदेव निर्दिश्यते। अन्यथाऽश्रोटसंस्कारक वाक्यं कुर्वाणः कथं नोन्मत्तः स्यात् । एतदेव स्पष्टयन्नाह । या चाकृततथतेत्यादि। न सा कदाचिन्न तथतेति । सर्वदैव तथतेत्यर्थः। उपसंहरन्नाह। यथा तथागततथता सर्वत्रेत्यादि (p. 308, 2)। सर्वत्रेति सर्वस्मिन् काले। अभिनिर्मित इति। प्रभावितो निष्यादितः। अलप्तमिति । लुप्तमप्रतीतमदृष्टं न लुप्तमलुप्तं दृष्टं प्रतौतमिति यावत्। भेदकानुपलब्धित इति। प्रमाणोपपन्नैकस्वभावत्वेन तथताया भेदकप्रमाणानुपलम्भेन दयमप्यनन्तरोक्तमभिन्नमित्येतदलप्तम् । सर्वधर्मतथतात्मिका तथागततथता सुभूतितथता पुनर्न तथाविधा। तत्कथं तथतया इयमभिन्न स्यादित्याह। यथा तथागततथतेत्यादि। नान्य
ति निपातवचनं प्रथमार्थे वर्तते । तदक्तम् । स्यात् । यथा सर्वधर्मतथताया नान्या तथागततथता किन्तर्हि