________________
अभिसमयालयारालोकः ।
तेत्यत एव निर्देशादस्य हस्वत्वमि"त्याचार्यवसुबन्धुः। कथमित्याह । यथा तथागतेत्यादि। एवं हि सुभूतिरिति । यस्मादनन्तरोततथतारूपेण तथागततथतामनुयातस्ततोऽजातत्वादनुजात इति पूर्वेण सन्धम्बः करणीयः। एवमुत्तरचाप्यवगन्तव्यम् । अभ्यासयोगेन तत्तथताप्राप्तौ कथं न वस्तुधर्मत्वेनानुजातः स्यादित्याह । आदित एवेत्यादि ।
आदित इति । प्रथमत एवेत्यर्थः । नियुक्तिकमेवेदमिति । तत्कस्य हेतोरित्याशङ्याह। या होत्यादि। सा सर्वधर्मतथतेति । द्रव्याभिमतानां रूपादौनां सामान्यधर्मताऽनुत्पाद इति यावत्। एवं तथागतसर्वधर्मतथतयोः परस्परमभेदेन तथागततथतायाः सर्वविषयत्वमावेदितम् । अतश्च सैव सुभूतेरपौत्याह । या चेत्यादि। अतोऽनुजात इति तथताप्राप्तियोगादनुजातः। तथता तर्हि द्रव्यसतौ स्यादित्याह। सापि चेत्यादि। अतथतेति, निर्विषयप्रतिषेधानुपपत्तेस्तथतापि सांतो मायोपमेति यावत् । तथागतमनुजात इति। अनुशब्दयोगे कर्मविभक्तिः । तथागतस्येति पाठे तत्सम्बन्धी विवक्षितः । तत्त्वतो धर्मतारूपत्वे कथमनुजात इत्याह । तथागतस्येत्यादि। स्थितितेति। संत्या प्रबन्धधर्मता। यद्येवं विकारादिमान् सुभूतिः स्थविरः स्यादित्याह। यथा तथागतेत्यादि। तत्राधिकन्यूनविकाराभावाद्यथाक्रममविकारानिर्विकारा । स्वपरविकल्पवियोगादविकल्या निर्विकल्या। तथागततथतावत्सुभूतितथता कुतोऽविकारादिस्वभावेत्याह । एतदेव कुत इति। तत्कस्य हेतोरित्याशझ्याह। या
47