________________
षोड़शपरिवर्तः ।
अप्रतिघातस्वभावं निर्दिशन्नाह । अथ खल्वायुष्मानित्यादि (p. 306, 2) | नायमिति । त्रिविधसर्वज्ञताकारसुपरिपूर्णाभिसमयत्वेन सर्वच रूपादौ ज्ञानधर्मस्याप्रतिघातित्वादयं देशनाधर्मो न क्वचित्प्रतिहन्यते । अपदस्वभावं वक्तुमाह । अप्रतिहतेत्यादि । सर्वपदानुपलब्धित इति । ज्ञानज्ञेयसमतया सर्वप्रतिष्ठानुपलम्भार्थेनाप्रतिहृतलक्षणोऽनभिभूतः । अद्वितीयत्वादिति । एकाकित्वादप्रतिमलक्षणोऽसादृश्यलक्षणः । निः प्रत्यर्थिकत्वादिति । सर्वप्रतिपक्षसमतिक्रान्तत्वादप्रतिलक्षणो ऽप्रतिपक्षलक्षणः । अनभिनिवृत्तत्वादिति । श्रजातत्वादपदोऽप्रतिष्ठास्वभावः । सर्वोपपत्त्यनुपपत्तित्वादिति । देवादिसर्वग तिष्ठविद्यमानरूपत्वादनुत्पादः। सर्वपथानुपलब्धित्वादिति । सर्वमार्गत्वेनानुपलम्भादपथोऽमार्गः । अपद इत्यस्य प्रयोगदर्शनभावनाविशेषा शैक्षमार्गेषु विशेषणार्थमप्रतिहतलक्षण इत्यादि पञ्चपदोपादानम् । अगतिस्वभावं कथयन्नाह । अनुजातो वतायमित्यादि । भगवतः सम्बन्धौ श्रावकोऽयमनु पश्चाज्जातस्तथागत इवेत्यनुजातः । कथं श्रावकोऽपि तथागत इवानुजात इति । तत्कस्य हेतोरित्याशङ्कयाह । तथा हि भगवन्नित्यादि । यस्मात्सर्वमेव धर्ममनधिगतार्थविषयमपि सम्यक् श्रून्यतया देशयति, तस्मात्तथागत इवानुजात इत्यर्थः । वस्तुधर्मत्वेनानुजातार्थं विघटयन्नाह । यद्देवपुचा इत्यादि । अजातत्वादिति (p. 307, 1 ) । तत्त्वेनानुत्पन्नत्वादजातस्तथागतस्य श्रावकः सुभूतिस्तस्यैव तथता - मनुयातः । प्राप्तस्तादात्म्येनानुगतः । तथाभावस्तथ
66
३६८