________________
अभिसमयालशारालोकः ।
३६७ संहारार्थमाह। गम्भौरो वतायमित्यादि। केयं गम्भौरतेत्यादि । यत्र न कश्चिदित्यादि। सर्वलोकविप्रत्यनौकस्वभावं कथयन्नाह । आकाशगम्भौरतयेत्यादि । अविचारैकरम्यकारणत्वादाकाशगम्भौरतया गम्भौरः। तत्त्वेन मायोपमकार्यस्वभावत्वादात्मगम्भौरतया गम्भीरः। उत्पादाभावासर्वधर्मानागमनतया गम्भौरः। विनाशवियोगात् सर्वधर्मागमनतया गम्भौरः। एतदुक्तम् । “ स्वप्नोपमहेतुफलधर्माधिगतिपूर्वकः क्षयानुत्पादज्ञानस्वभावो मया धर्मोऽभिसम्बुद्धो देश्यत" इति । यथोक्तस्वभावमेव स्पष्टयनाह। आश्चर्यमित्यादि (p. 305, 2)। हेतुवैशिष्ट्यादाश्चर्यम्। फलातिशयादगतम्। सर्वलोकविपरीतत्वात्सर्वलोकविप्रत्यनौकः । तदेव वक्तुमाह । अनुहायेत्यादि। अयमिति प्रज्ञापारमितात्मकः॥
अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां
देवपरिवर्तो नाम पञ्चदशः ॥