________________
३६६
पञ्चदशपरिवर्तः ।
विशेषमार्ग इत्येके । वैशेषिकगुणाभिनिर्धारको विशेषमार्गो निरोध इत्यन्ये । भावना वज्रोपमः समाधिः सर्वा - वरणाभेद्यभेदकः। विभावना निष्ठामार्गः । क्षयानुत्पादज्ञानं देशादेशसामान्यम् | प्रदेशो देशविशेषः । न केनचिदभिसम्बोडमिति । रूपादिभिराकारैर्न शक्याधिगन्तुम् । तदेवाह । न रूपेणेत्यादिना । यत्तदमुक्तमालम्बनं सर्वधर्मा लौकिकाः कुशलादय इत्यादि, तत्कथमिति । तत्कस्य हेतोरित्याशङ्क्याह । रूपमेव हौत्यादि । यस्माद्योगिसंवृत्त्या रूपादिकमेव मायोपमताधिगतं बुद्धत्वमित्यर्थः । यथोक्तं प्रसिद्धमाचस्य हि या यथार्थता तदर्थसम्बोधफलं हि शासनमिति । दानपारमितैवेत्यादि । तत्र दानशौलक्षान्तिपारमितास्तिस्रो वौर्यध्यानपारमितयोश्चांशः पुण्यसम्भारः । ज्ञानसम्भारस्तु प्रज्ञापारमिता वौर्यध्यानपारमितयोश्चांश इत्येतत्सर्वं मायोपमत्वेनाविशिष्टत्वात्तथागतत्वम् । सम्यग्धर्मावबोधेन सञ्जातप्रसादातिशया भगवत्पादवन्दनापूर्वकं मातुर्माहात्म्यं शक्रादयः प्रकटयन्तौत्याह । अथ खलु शक्र इत्यादि । तच गम्भौरा रूपादितथतास्वभावत्वात् । श्रुतचिन्ताभावनावस्थासु मायोपमत्वाद्यथाक्रमं दुरवगाहा दुर्दशा दुरनुबोधा, इदमप्यर्थवशमिति । अपिशब्दान्न केवलं विनेयाग्रहणादि केन्तदमपि धर्मगाम्भीर्यं पश्यत इत्यर्थः । अल्पोत्सुकनामिति निर्व्यापारत्वे चित्तमवनतम् । न धर्मदेशनायां नथापि ब्रह्माध्येषणान्महाकरुणया धर्मचक्रं प्रवर्तितमिति भावः । साधूक्तत्वेनानुवदन्नाह । एवमेतदित्यादि । उप