________________
अभिसमयालधारालोकः ।
३६५
कथिता स्यात्। निर्घातस्वरूपा सन्ततिरन्यस्य व्यवचारणे दक्षेत्याह। कथं भगवन्नित्यादि। प्रयोगमौलपृष्ठावस्थासु मायोपमसर्वधर्मभावनात्मिकया चित्तसन्तत्या पूर्विकया सर्वज्ञतानिम्ना सन्ततिळवचारितेति परिहरन्नाह । आकाशनिम्ना चेत्यादिपदवयम् (p. 303, 1) । इयं सा व्यवचारणेति । यथोक्तनिश्चितसन्तत्या सा व्यवचारणा सम्यगित्यर्थः। नियुक्तिकमेवेदमिति । तत्कस्य हेतोरित्याशङ्कयाह । अप्रमेया होत्यादि। यस्मात् तत्त्वेन प्रमाणप्रमेयत्वसमतिक्रमाद्यथायोगमप्रमेयाऽप्रमाणा च सर्वज्ञता तस्मान्मायोपमभावनानिश्चितसन्तत्या व्यवचारणाऽन्यथा प्रमेयत्वादिसद्भावाभावग्रहः स्यादिति वाक्यार्थः । एतदेव स्पष्टयन्नाह । यत्सुभूत इत्यादि। तत्र प्राप्तिः पृथग्जनस्य शौलादिस्वभावः सम्भारमार्गः, अभिममयः सम्भृतसम्भारस्य निर्वेधभागीयात्मकः प्रयोगमार्गः । अधिगमः सर्वत्रगधर्मधातुप्रतिवेधलक्षणो दर्शनमार्गः । मार्गो लौकिकध्यानारूप्यालम्बनो लौकिकभावनामार्गः । मार्गफलं दुःखसत्यादिज्ञानरूपो लोकोत्तरभावनामार्गः । ज्ञानमधिमाचाधिमात्रादिलशप्रहाणकारी मृदमहादिस्वभावो मृदमार्गः। विज्ञानं मध्याधिमात्रादिक्लेशविध्वंसको मध्यमृद्दादिलक्षणो मध्यो मार्गः। उत्पत्तिर्मदधिमात्रादिक्लेशोन्मूलकोऽधिमात्रम्सद्दादिरूपोऽधिमाचो मार्गः। विनाशो भावनामार्गे क्लेशप्रहाणोपायः प्रयोगमार्गः। उत्पादः क्लेशप्रहाणेन विमुक्तिप्रापकः सम्यगानन्तर्यमार्गः। व्ययः क्लेशविविक्तज्ञानसाक्षात्कारौ विमुक्तिमार्गः। निरोधः परिशिष्टक्लेशप्रकारस्य प्रयोगानन्तर्यविमुक्तिमार्गात्मको