________________
३६४
पञ्चदशपरिवर्तः ।
त्यादि । आकाशभावनेति । तत्त्वतो मायोपमभावना । तामेव भावनां सर्वाकारज्ञतादिभेदेनाह । सर्वधर्मभावनेत्यादिना । तच सर्वाकारज्ञतया सर्वाभिसमयानुत्पादसंग्रहात् सर्वधर्मभावना । मार्गज्ञतयाऽनभिनिवेशेन सर्वमार्गशिक्षणादसङ्गभावना । सर्वज्ञतयाऽशेषवस्तुसङ्घहादत्यन्तभावना । सर्वाकाराभिमम्बोधेन विशेषमार्गरूपत्वादसम्भावना | मूर्धाभिसमयेन निष्ठामार्गलक्षणत्वादपरिग्रहभावना । अनभिनिवेशस्वभावं वक्तुमेवमेतत्सुभूत एवमेतदिति । स्वहस्तदानपूर्वकमाह । अतो हि सुभूते गम्भौराया इत्यादि ( P. 302, 1 ) । अत इति वक्ष्यमाणात् कारणादित्यर्थः । कारणमेवाह । कच्चिदित्यादिना । कच्चिच्छब्दो यस्मादर्थे वर्तते । नाभिनिवेशं करोतीति । न वस्तुपरिग्रहं करोति । परभणितानि परमन्त्रितानि नाभिनिविशत इति । निकायभिक्षूणां नेदं बुद्धवचनमिति । प्रकटाभिधानं परभणितं प्रच्छन्नकथनं परमन्त्रितम् । नाकर्णयति । न परस्य श्रद्धया गच्छतौति, प्रत्यात्मवेद्यप्रसादलाभान्न पर प्रणेयो भवति । ग्रन्थाद्यवगमादवगाहते । अर्थालम्बनादधिमुच्यते । तथैव तत्कस्य हेतोरित्याशङ्क्याह । तथा हौत्यादि । जन्मान्तरवासनाधानमन्तरेण चानुवासा दिर्न भवतीति भावः । अनुत्त्वासादिभिश्च मार्गज्ञताकार - भावना कथिता स्यात् । आलम्बनस्वभावं निर्दिशन्नाह । यो भगवन् बोधिसत्त्व इत्यादि । श्रकारेणेति ग्रहणप्रकारेण । व्यवचारिता निरूपिता । सर्वज्ञतानिम्नयेति त्रिसर्वज्ञतानिष्टया चित्तसन्तत्या । अनेन चिसर्वज्ञताभावना
1