________________
अभिसमयालारालोकः।
३६३ त्वेन दष्करकारकः। सन्नाहस्वरूपं स्पष्टयनाए। स खलु पुनरयमित्यादि। तत्र वर्तमानरूपाद्यभिनिवेशविरहान्न रूपादिसम्बन्धः। अनागततत्प्रार्थनाविमुखत्वान्न रूपादेराय सम्बन्धः। नियुक्तिकमेवेदमिति। तत्कस्य हेतोरित्याशङ्कयाह। सर्वधर्मासम्बद्ध इति। तत्त्वतोविचारैकरम्यत्वादिति मतिः। ऐकान्तिकस्वभावं प्रतिपादयन्नाह। अस्य भगवन् बोधिसत्त्वस्येत्यादि। एवं महासन्नाहसन्नवस्येति । ऐकान्तिकस्वभावेन युक्तस्य । तब श्रावकभूमिः प्रत्येकबुद्धभूमिश्च सम्यक्प्रत्तत्वाबोधिमत्त्वस्य न प्रतिकांक्षितव्या। बुद्धभूमिः पुनरभिलाषयोगेन नाकांक्षणीया। कथमयमों लभ्यत इत्याह। कं त्वं सुभूतेऽर्थवशमित्यादि (p. 301, I)। सर्वोपलम्भप्रतिपक्षत्वान्मातुरित्यभिप्रायेण परिहरन्नाह। अस्थानं होत्यादि। तत्र हेतुवैकल्यादस्थानमसम्भवः । फलासम्भवादनवकाशोऽनवसरः। श्रावकादिभूमिपातास्थानानवकाशत्वेन चैकान्तिकभावनाऽनभिनिवेशयोगेन परिदौपिता भवेत् । उद्देशस्वभावं निर्दिशन्नाह। अपि तु बुद्धभूमिरेवेत्यादि । प्रतिकांक्षितव्येति । मायोपमसर्वधर्माधिमोक्षादिति भावः। अनेनोद्देशभावनाऽव्यभिचारत्वेनोद्योतिता स्यात् । अनुपलम्भस्वभावं कथयन्नाह। गम्भौरा भगवन्नित्यादि। सा न केनचिद्भावयितव्या। भाव्यभावकभावनानुपलम्भात् । तदेवाह । तां होत्यादिना। पूर्ववत् तत्कस्य हेतोरित्याशङ्याह । न होत्यादि। न हि कश्चिद्धर्मः परिनिष्यन्न इति। कर्तृकर्मक्रियादिलक्षणः। कथन्तर्हि भावने